पृष्ठम्:SukavihRdayAnandinI.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

60

चतुर्थोऽध्यायः अर्धसमवृताध्यायः

अथार्धसमवृत्ताध्यायमाह ।

विषमे यदि सौ सलगा दले । भौ युजि भाद्रुरुकावुपचित्रम्‌ । १

अत्र पादे इति वक्तव्ये अर्धसमवृत्ताध्याये त्वर्धापिक्षया अर्धं इत्युक्तं सूत्रकारेणेति न दोषः । विषमे प्रथमे तृतीये पादे त्रयः सगणा लघुर्मुरर्यदि युजि समे द्वितीये चतुर्थे भरगण्रयं द्रौ गुरु तदा उपचित्रा नामार्धसमवृत्तं भवति । यथा ।

त्वदरातिपुरे क्षिति योद्धसे मुक्तमहोरगकंचुकेवंति (?)।

उपचित्रमुदीक्ष्य दिवा भयान्नो विविशुर्भवनानि हरिण्यः ॥ १

भव्रयमोजगतं गुरुणी चेद्ुजि च नजौ ज्ययुतौ द्रुतमध्या ॥ २

यस्यार्धसमवृत्तस्य ओजे विषमे प्रथमे तृतीये पादे भगणत्रयं दौ गुरु यदि युजि समे द्वितीये चतुर्थे नगणजगणौ जगणयगणौ च तदत द्रुतमध्या नाम । यथा । टृष्टिविलासविशेषमशेषं विविधगतीरवचोरचनां च ।

यौवनमेव वधू द्रुतमध्यापयति मनोभवदत्तविवेका ॥ २

सयुगात्सगुरू विषमे चेत्‌ । भाविह वेगवती युजि भाद्रौ । 3

विषमे पादे त्रयः सगणा गुरुश्च युजि समे भवणत्रयं द्रौ गुरू च तदा वेगवती नाम । यथा |

सुकृतैकनिधेः‡ स्मरबन्धोः कस्यचिदालयमालि सलीलम्‌ ।

इयमुन्नतपीननितम्बा गच्छति वेगवती मदनार्ती ॥ 3

ओजे तपरौ जरौ गुरुश्वेत्‌ । म्सौ ज्गौ भद्रविराडभवेदनोजे । ४ ओजे विषमे पादे प्रथमे तृतीये तगणात्परौ जगणरगणौ गुरुश्े्यदि भवति अनोजे समे

द्वितीये चतुर्थे पादे मगणसगणजगणा गुरू च भवन्ति तदृत्तं भद्रविराट्‌ नाम । यथा। कुन्देन्दुसमुज्ज्वलेन बद्ध ब्रह्माण्डोदरवर्तिनां नरेन्द्र ।


215 पाठे सुकृतैकनिधैः |

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/६०&oldid=371626" इत्यस्माद् प्रतिप्राप्तम्