पृष्ठम्:SukavihRdayAnandinI.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

58

तरुणीमनि (?) सखि स्फुरज्ज्वालजिहाग्रलोलेऽङ्गनानां सदा सौख्यं विध्वंसिनाऽनेन कि दग्धमानेन ते ॥

तैरेकादशभिर्जीमूतैर्यथा ।

प्रियविरहितकामिनी जीविता सा विनाशैकदक्षानिलोदूतकादम्बपुष्पासवामू्च्छिताशेषभूगध्वजो ।

नभसि नभमिवांक्षसौदामिनीमालयालंकृतं नीलरजीमूतपंक्तं बलाकावलीसेवितां लोचनानन्ददाम्‌ ।

विरचितमधुरस्वरं चातकानां' च रम्यं समूहं तु सास्कांतमप्युन्मदं(?) भाविनीं तृत्तिमाकाक्षमाणम्‌ ।

मुहूकृतविततसुबर्हिभारः शिखीसंवन्मन्मथा प्रेयसी प्रीतिमुत्पादयन्‌ नृत्यति स्वाइ्धिविन्याससोदर्यवत्‌ ॥

द्वादशभिर्बीलाकरो यथा । अभिनवनवपल्लवास्वादसंशुद्धकण्ठान्यपुष्टागनासुंदरारध्वगीतध्वनिप्राप्तबोधिर्यदि चक्रवाले वने |

कुसुमितबहूपाटला कर्णिकाराम्रसत्सिंदुवारोत्तमाशोकसत्पुष्पभारा वनश्रीकृताशेषशाखात्रसत्पल्लवे वने ।

विलपति वनिता घनस्याभ्निमानग्रह लास्यलीलाकरो माधवी पल्लवानामयं कामदेवैकबन्धवसन्तानितो ।

जगति विजयिनीं स्मराज्ामिवाविष्करोत्यंगनानां रतायासजस्वेदबिन्दुप्रसक्तालकप्रांतकंपं विधित्सुर्मुहूः ॥

तरयोदशभी"" रगणैरुदामो यथा ।

शशधरसदशं मुखाम्भोरुह' बिभ्रती पक्वबिम्बाधरोद्दामहारावलीशोभितोच्चस्तनी सूष्ष्मरोमावलीप्राप्तनाभिहृदा । श्रवणयुगनिवेशितस्वर्णताण्डकसंलग्नरत्रप्रभासितापांगरगांगणोत्संगसंनृत्यमानेक्षणक्षोभित कष्मातलाः"* |


2" चरणयुगानतं / चरणयुगाततं वा ।

२0 पाठे चतकानां ।

211 पाठे त्रयोदशभि ।

° पाठे मुखाम्भोरुहां ।

°^ पाठे श्रवणयुगनिवेशितस्वर्णताण्डकसंलग्नरन्नप्रभासितापांगरंगांगणेत्संगसनृत्यमानेक्षणक्षोभितक्ष्मातला ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/५८&oldid=371615" इत्यस्माद् प्रतिप्राप्तम्