पृष्ठम्:SukavihRdayAnandinI.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

55

संकृतौ

भूतमुनीनैर्यतिरिह भतनाः स्भौ भनयाश्च यदि भवति तन्वी । ११२

भगणतगणनगणसगणा दौ भगणौ नगणयगणौ यस्य पादे तद्वृत्तं तन्वी नाम । पंचभिः सप्तभिरादित्यैश्च यतिः । यथा |

या मुखपद्मं शशधरसद्शं सुन्दरलोलनयनमतिरम्यम्‌

सुभ्रु बिभर्ति त्रिभुवनजयिनो वासनिवासमिव मकरकेतोः ।

पीननितम्बा गुरुकुचयुगला वृत्तसुकोमलभुजकरयुग्मा

सा मम चित्ते जनयति युवती हर्षमनल्पमियमिह सुतन्वी ॥ ११२

अतिकृतौ क्रौञ्चपदा भमौ स्भौ ननना न्गी इषुशरवसुमुनिविरतिरिह भवेत्‌ । ११३

भरगणमगणस्रगणभगणाश्चत्वारो नगणा गुरुश्च यस्य पादे तदं क्रौञ्चपदा नाम । पञ्चभ्भिरष्टभिः सप्तभिश्च यतिः । यथा |

क्रौञ्चपदा या रोमशगात्री विकटदशनतनिरतिपरुषतनुः

पिंगलदृष्टिः सूक्ष्मनितम्बा कपिलकचनिचयविषमकुचयुगा ।

या च हसन्ती लोचनवारि प्रकटयति रहसि निजपतिविमुखी

मुञ्च सखे तामिष्ठतमं चेच्िरतरमिह तव चर विषयसुखम्‌ ॥ ११३

उत्कृतौ

वस्वीशाश्चच्छेदोपेतं ममतनयुगनरसलभैभजंगविजृम्भितम्‌ । ११४


2 विगतभ्यभिभवभमितमृगनिवहाः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/५५&oldid=371617" इत्यस्माद् प्रतिप्राप्तम्