पृष्ठम्:SukavihRdayAnandinI.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आकृतौ

भ्रौ नरना रनावथ गुरु्दिगर्कविरमं हि मद्रकमिदम्‌ । १०९

भगणरगणनगणा रगणनगणरगणनगणगुरवौ यस्य पादे तदृतं मद्रकं नाम । दशभिरद्रदशभिर्यतिः । यथा |

त्वत्कथितैरलीकवचनैः करोमि कथमस्य कोपमसमम्‌

यस्य न विप्रियं सखि मया श्रुतं न च निरीक्षितं कथमपि ।

मद्रकरैरयं प्रियतमः करोति वचनैर्मनः समदनम्‌

पाश्यविमुक्तजालमधुना ममाङ्ध्रियुगले लुठत्यपि भृशम्‌ ॥ १०९

विकृतौ

54

यदिह नजौ भजौ भ्जभलगास्तदाश्चललितं हरार्कयतिमत्‌" । ११०

यस्य पादे नगणजगणौ भरगणजगणभरगणजगणभ्रगणलघुगुरवौ भवन्ति तद्रृत्त अश्चवतवितं

नाम । एकादशश्िरद्वदशभिर्यतिः । यथा । समरविनिर्जिंतारिनिवहक्षितीश्चरविचित्रमश्चतललितम्‌ हदयचमत्कृतिप्रदमिदं विलोक्य भवतो वदन्ति कवयः | धरुवमुररीचकार नृपतेदिवस्पतिरिमं तुरगमवरं

बहूतरमन्यथा न वियति क्रथैरिह विवेलतेऽतिबहूलैः (2?) ॥ ११०

मत्ताक्रीडं मौ त्रौ नौ न्तौ निति भवति वसुशरदशयतियुतम्‌ । १११

यस्य पादे दौ मगणौ तगणनगणौ द्वौ नगणौ नगणलघुगुरवस्तदृ्त मत्ताक्रीडं नाम । अष्टभिः पञ्चभि दशभिश्च यतिः । यथा |

दृष्टवा चान्द्र बिम्बं रात्रौ करनिकरविनिहिततिमिरनिकरम्‌ गायन्ति स्म स्वैरं यस्मिन्सुविकसितकुसुमवति मधुसमये । पौरा बद्धास्तस्मिन्‌ सप्रत्यवनिपतितिलक तव नगरे मत्ताक्रीडातिस्वच्छन्द विगतभयभवभमितमृगनिवहाः ॥ १११


20 पाठे हरार्कयतितत्‌ । 201 पाठे मत्ताक्रीडतिस्वच्छन्द ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/५४&oldid=371624" इत्यस्माद् प्रतिप्राप्तम्