पृष्ठम्:SukavihRdayAnandinI.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[कृतौ] 197

जेया सप्ताश्चषड़भिर्मरभनययुतो भ्लौ गः सुवदना । १०६

यस्य वृत्तस्य पादे मगणरगणभगणनगणयगणभगणलघुगुरुस्तदृ्तं सुवदना नाम । सप्तभिः सप्तभिः षष्ठश्च यतिः ।

रम्भास्तम्भोपमोरूः सुगुरुघनकुचा सारगनयना

मध्यक्षामा सुरोमावलिरमलमदंता चन्द्रवदना ।

हृत्स्थं भावं कटाक्ैर्निजमिव कथयत्येषा सुवदना

यूनां चेतांसि सद्यो मदयति युवतिश्छेकोक्तिकुशला ॥ १०६

त्री रजौ गतौ भवेदिहैदृशेन लक्षणेन वृत्त नाम । १०७

त्रीन्वारा्रगणजगणौ गुरुलघू यस्य पादे तदत्तं वृत्त नाम वृत्ताभिधानमित्यर्थः । संपदापतिसम्भवो मदः कदाचिदेव मानसे नगस्य

न प्रमाणविदयया परप्रमेयजालभगदक्षयाऽपि ।

नाप्यरुपरूपया परागनाभ्भिमशनो रसः" कदापि

तस्य वृत्तमीदशं शिरोभिरुट्यते नरैरतो विचार्यः ॥ १०७

प्रकृतौ

मकभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्‌ । १०८

मगणरगणभ्रगणनगणा यगणत्रयं यस्य पादे तदृतं सग्धरा नाम | वारत्रयं सप्तभिर्यतिः

यासामुन्निद्रपद्मयुतिमुखममलं स्फारविस्फारिताक्षम्‌ चञ्चत्काञ्चीगुणेन स्फुरदुरुमणिनाऽऽवर्तलक्ष्मीं वितन्वत्‌ । चेतःःप्रीतिं नराणां विदधति विल्रसन्नाभनिमध्यप्रदेशा गच्छन्त्यो राजमार्गे विकचविचकिलस्रग्धरा राजवध्वः ॥ १०८


197 पाठे नास्ति । 198 पाठे यस्या । 1१» पाठे रासः ।

53

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/५३&oldid=371623" इत्यस्माद् प्रतिप्राप्तम्