पृष्ठम्:SukavihRdayAnandinI.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

51

किमिह न चेत्तस्याहारि। धरुवं हरिणीदृशः ॥ ऋषभचरितमित्येके । ९९

मन्दाक्रान्ता जलधिषडगैः म्भौ नतौ तद्रू चेत्‌ । १००

मगणभगणनगणा द्वौ तगणौ द्वौ गुरू च यस्य पादे तद्त्तं मन्दाक्रान्ता नाम । चतुर्भिः षड्भिश्चेयतिर्भवति । यथा ।

मन्दाक्रान्ताधरकिसलया पाणिपद्मं धुनाना

गाढाक्नेषप्रणयिशिथिला वेपमानागयष्टिः ।

स्विद्यदक्त्रा पुलकिततनुः किचिदामीविताक्षी

चेतःप्रीतिं जनयति भृशं नूतनोढा विवोढा ॥ १००

यदि भवतो नजौ भजजला गुरु्मरकृटकम्‌ । १०१

नगनजगणभगणा द्रौ जगणौ लघुगुरू अह तदृत् नर्कुटकं नाम । अवितथमिति अन्ये । यथा ।

सुरभिसमागमे विरहिणीजनशोककरे

कृतबहूमण्डना त्वमतिभामनि मद्रचनैः

निजदयितांतिकं यदि न यासि गतं तदहो

अवितथवाक्यकौशतमिद'% मम निष्फलताम्‌'% ॥ १०१

मुनिगुहकार्णवैः कृतयतिं वद कोकिलकम्‌ । १०२

नरकुटकमेव सप्तभिः गुहकैः"* कार्तिकेयशिरोभिः षड्भिश्चतुर्भिः कृतयति तद्ृत्तं वद कोकिलकं हे शिष्येति विशेषः । यथा ।

मदनमहोत्सवे मुदितकोकिलकान्तरवे

न भजति या प्रियं प्रणयसुन्दरमिन्दुमुखि ।

ध्ुवमिह साबला स्वयमहर्निशमेव भृशं

सखि परितप्यते गुरुमनोभवतापवती ॥ १०२

धृतौ


४ पाठे किमिहनवेत्तस्याहारि । छदोभगः टश्यते । ४ पाठे अवतथवाक्यकौशलमिद ।

1% पाठे निःफलताम्‌ ।

"' पाठे गुहैकेः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/५१&oldid=371621" इत्यस्माद् प्रतिप्राप्तम्