पृष्ठम्:SukavihRdayAnandinI.djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

48 कटकयुगलमपि कलरवसुभगं त्रियमिदमिह जनयति सुचरणया+ ॥ ८८

वसुहययतिरिति मणिगुणनिकरः । ८९

इयमेव शशिकला वस्वष्टभिर्हयैः सप्तभिर्यदा मणिगुणनिकरः नाम । यथा । परजनहितकरवरधनकवितः सुवचनकृतवरजनसुखनिवहः | भवभुवि भवकृतवरतरमहिमा स भवति नरवर मणिगुणनिकरः ॥ ८९

ननमयययुतेयं मालिनी भोगिलोकैः । ९०

दरौ नगणौ मगणौ द्वौ यगणौ यस्य तदृतं मालिनी नाम । यथा । अष्टभिः सपतभिर्यतिः । नवजलधरमालामालिनी तां विलोक्य

निजदयितवियोगप्रान्तभावं निबोधम्‌ ।

न न खलु जलधराणां नादमाकर्ण्य कश्चि-

द्रवति शिथिलरबुदिर्वेश्म गन्तुं प्रवासी ॥ ९०

भवति नजौ भजौ रसहितौ प्रभद्रकम्‌ । ९१

यस्य पादे नगणजगणभ्गणजगणरगणास्तदृतंप्रभद्रकं नाम । यथा । अलभत दुश्चरेण तपसा हिमाद्रिजा

यमिह पतिं पतिं: त्रिजगतां महेश्वरम्‌ । पवनसमुद्धुतामलिशिखाहुतस्मरो

दिशतु सतां सदैव सवि सुप्रभद्रकम्‌ ॥ ९१

सजना नयौ" शरदशकविरतिरेला । ९२

सगणजगणनगणनगणयगणा यत्र तद्ृत्तमेला नाम । पंचकिर्दैशभिर्यतिः । यथा । वरचंदनद्रुमकिशलयमरिचैला-

लवलीलताप्रभृतिवनमिह धुन्वन्‌ ।

मलयानिलः सपदि विदलितप्रयुक्त-

प्रमदाजनः प्रसरितपतिबन्धुः ॥'* ९२


° पाठे सुचरणयाः ।

९ पाठे पतिं ।

।* पाठे नजौ । टीकायां तु नयौ इति गृहीत्वा विवृतम्‌ ।

  • चरमे पादे कछंदोभगः लक्ष्यते ।
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/४८&oldid=371614" इत्यस्माद् प्रतिप्राप्तम्