पृष्ठम्:SukavihRdayAnandinI.djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

47

वसंततिलकामित्येके'"” | ८४

इन्दुवदना भजसनैः सगुरुयुग्मैः । ८५

भगणजगणसगणनगणा द्रौ गुरू च यस्य पादे तदृत्तमिन्दुवदना नाम । यथा । मारुतवशप्रचतितोत्पलरदलाक्षं शोभनललाटतटमध्यकृतपुण्डम्‌ । रे पथिक सप्रति मधौ मदनबन्धौ संस्मरसि तद्रदनमिन्दुवदनायाः ॥ ८५

द्िःसप्तच्छिदलोला म्सौ म्भौ गौ चरणे चेत्‌ । ८६

यस्य चरणे पादे मगणसरगणमगणभगणा द्रौ गुरू तदुत्तं अलोला नाम । सप्तभिर्यतिः । यथा ।

यो देव द्िजभक्तः संसारेषु विरक्तः श्रौतस्मार्तविधीनां कर्त त्यक्तविकल्पः ।

मैत्रः कारुणिकात्मा क्रोधामर्षविमुक्तस्तस्य श्रीभ्रुवने स्याल्लोला नूनमलोला ॥ ८६

अतिशक्वर्याम्‌ ।

दविहतहयलघुरथ गिति शशिकला" । ८७

द्विहतहयलघुरित्यर्थः गुरुश्च भवति यस्य चरणे तदृतं शशिकला नाम । सपतभिरष्टभिर्यतिः । पारिशेष्याययथा ।

कुसुमशरतनुदहनशिरसि जटामुकुटतटमणिरमलकिरणा"” ।

तव भवतु सुखकृदयमिह'* सततं प्रविपदि सुनभसि वसति" शशिकला ॥ ८७

स्रगिति भवति रसनवकयतिरियम्‌ । ८८

षड्भ्भिर्मवभरिश्च यदा यतिर्भवति तदा खमिति नाम । मालेति वक्तव्ये कछदोभगभयात्‌ सरगित्युक्तम्‌ । एका्थत्वान्न दोषः । यथा । घनपरिमलमिितमधुपनिचया स्रगियमुरसि तव शशिमुखि शुशुभे ।


1 पाठे वसंततिलकामित्यने ।

1" पाठे शशिकाला ।

  • पाठे जटामुकुटातटमणिरमलकिरणा ।
  • पाठे सुखकृतयमिह ।

8" पाठे वशति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/४७&oldid=371613" इत्यस्माद् प्रतिप्राप्तम्