तत्राहगंणानयनमाह | अथ ग्रहानयनाध्यायः । कथितकल्पगतोऽर्कसमागणो रविगुणो गतमाससमन्वितः । खदहनैर्गुणितस्थितिसंयुतः पृथगतोऽधिकमास - १५९३३००००० समाहतात् ॥ १ ॥ - रविदिना - १५५५२०००००००० प्तगताधिकमासकैः कृतदिनैः सहितो द्युगणो विधोः । पृथगतः पठितावम- २५०८२५५०००० सङ्गुणाद्- विधुदिना–१६०२९९९०००००० प्तगतावमवर्जितः ॥ २ ॥ भवति भास्करवारपूर्वको दिनगणो रविमध्यमसावनः । अधिकमासदिनक्षयशेषतो घटिकादिकमत्र न गृह्यते ॥ ३ ॥ वा० भा० – स्पष्टम् । अत्र वासना । कल्पगताब्दा द्वादशगुणिता रविमासा जातास्ते चैत्रादिगतचान्द्रतुल्यैः सौरैरेव युतस्त्रशद्गुणा इष्टमासप्रतिपदादिगत तिथितुल्यैः सौरैरेव दिनैर्युताः । एवं ते सौरा जातास्तेभ्यः पृथक् स्थितेभ्योऽधिमासानयनं त्रैराशिकेन । यदि कल्पसौरदिनः कल्पाधिमासाः लभ्यन्ते तदैभिः किमिति । फलं गताधिमासाः । तैदिनीकृतैः पृथक् स्थितः सौराहगणः सहितश्चान्द्रो भवति । ततः सौरचान्द्रान्तरमधिमासदिनान्येव । अथ चान्द्राद् धुगणादवमानयनं त्रैराकिशन | यदि कल्पचा- न्द्राहैः कल्पावमानि लभ्यन्ते तदैभिः किमिति | फलं गतावमानि | तैरूनश्चान्द्रोऽहर्गणोऽतः कर्तव्यः । यतः सावनचान्द्रान्तरेऽवमान्येव । एवं कृते सति रवेर्मध्यमः सावनाहर्गणो भवति न स्फुटः । मध्यमस्फुटाहर्गंणयोर्भेदो गोले कथितः । स चाहणोऽर्कादिः । यतः कल्पादौ रवि- वासरः । अत्राऽधिमासानयनेऽधिमासशेषमनष्टं स्थाप्यम् । न पुनस्तस्माद्दिनाद्यवयवा ग्राह्याः | एवमवमशेषमपि । न तस्माद्घटिकादिकं ग्राह्यम् । नन्वनुपात: सावयवो भवति कुतस्तदवयवा न ग्राह्याः । तत्कारणं गोले कथितं व्याख्यातञ्च ॥ १३ ॥ वा० वा० – अथाहर्गणानयनमाह कथितकल्पगतोऽर्क इति । अत्र वासना भाष्यकृदुक्ता | शेषत्यागवासना गोलाध्याये वक्ष्यते । 'दर्शान्ततः सङ्क्रमकालत: प्राक् सदैव तिष्ठत्यधिमासशेषम् | १. सि० शि० गो० म० वा० १६-१८ श्लो० । प्रकाशितपुस्तकेषु 'दर्शाग्रतः' इति पाठो विद्यते । क० ख पु० 'दर्श तितो' इति ।
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/९९
दिखावट