पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारे भगणाध्यायः ५३ वा० भा० - अत्रोपपत्तिः । चन्द्रभगणा रविभगणोनाइचन्द्र मासा भवन्ति । तेऽधिमास ज्ञानार्थं रविमासोनाः कार्या: । रविमासास्तु द्वादशगुणितं रविभगणैभवन्ति । पूर्वमेकगुणैरूना इदानीं द्वादशगुणैश्च । अतस्त्रयोदशगुणं रविभगणैरूनाइचन्द्र भगणा अधिमः सा भवन्तीत्युपपन्नम् उत्तरार्धेन केन्द्र स्वरूपमुक्तम् ॥ १४ ॥ इति भगणांध्यायः । वा० वा०- - इदानीमन्यदप्याह इन्दुमण्डलेति । अत्रोदाहरणम् । एकस्मिन् वर्षे चन्द्रचक्राणि १३॥४॥१२॥४६॥३०॥ गुणेन्दुसङ् गुणरविचक्राणि १३ विवरम् | ०|४||१२||४६||३०|| भगणस्थाने ये तेऽधिमासाः । पुनर्य च्छेषं सावयवं तत्त्रिंशता सङ्गुण्य विकलासु षष्ट्या विभज्य लब्धं कलासु निक्षिपेत् । एवं कलासु षष्ट्या, भागेषु त्रिशता, राशिषु द्वादशभिविभज्योपर्युपरि नियोज्य तद् भगण- स्थाने यत् ते दिवसाः । पुनः शेषं षष्ट्या सगुण्योपर्युपरि नियोजनेन भगणस्थाने यत्ताः घटिकाः भवन्ति, एवं पलान्यपि । एवं जातमेकस्मिन् वर्षेऽधिमासाद्यम् ||११||३| ||५२||३०|| अत्र वासना केवलयोर्यावदन्त तावदेव केनचित्संयुक्तयोरपि स्यादिति सौरमास चान्द्रमासयोः सूर्यभगणा योजिताः । तत्र रविभगणोनचन्द्रभगणात्मके चान्द्रमासे यावद्रविभगणा योज्यन्ते तावच्चन्द्र भगणा एव भवन्ति । तथैव द्वादशगुणरविभगणा- त्मकेषु सौरमासेषु यावद्रविभगणाः क्षिप्यन्ते तावत्त्रयोदशगुणाः सूर्यभगणा भवन्ति । ततस्तेषामन्तरं कृतम् । यतः सौरचान्द्रमासानामन्तरमधिमासाः ॥ १४ ॥ इति कृष्णदैवज्ञात्मजनृसिंहकृतौ सिद्धान्त [ वासना ] वात्तिके भगणज्ञानम् ॥ 1:0:1 खखाङ्गेषुपक्षाश्विवेदाङ्गरामा ३६४२२५६०० नगाब्ध्यग्निगोगोङ्कगोभूत्रिवेदा ४३१९९९९३४७ ।। नगतत्त्वाद्रयङ्गपञ्चरसशक्रा: १४६५६६२५७ कुजादथ | गजाद्रिमनुसप्तेन्दुत्र्यश्विखाश्विमिता: २०२३१७१४७८ क्रमात् ।। कृताष्टाङ्कगजाङ्काङ्कषड्भूषड्रामभूमिताः १३६१६९९८९८४ । पञ्चाब्धीष्वग्निसप्तागपञ्चपञ्चनवाग्नयः ३९५५७७३५४५ ॥ द्व्य'ङ्काब्ध्यङ्कगजाग्न्यश्विखमै - २७०२३८९४९२ द्रक्केन्द्रपर्यंयाः । द्विखभत्र्यब्धिरामागकुवेदा ४१७३४३२७०२ ब्रह्मणो दिने || "