पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणौ ग्रहगणिते घटिकास्तदा राश्यादिकलाभिः किमिति घटयादि साध्यम् । ऊनितं चन्द्रमासैरित्यत्र चन्द्रमांसा एव दिनानि । तदधो यत् तद् द्विगुणं विधाय घटिकाद्यं भवति । ५२ अत्रोदाहरणम् एकस्मिन् सौरवर्षे चन्द्रचक्राणि सावयवानि ||१३||४|१२| ४६||३०|| अत्र राश्याद्यस्योक्तप्रकारेण घटिकाः ||२२||७|४५|| एता दिनस्थाने चन्द्र- चक्रयुताः । एवं जातानि चन्द्रचक्राणि ||१३||२२||७||४५॥ एतानि चान्द्रदिवसैरेभिः ||३७१||३||५२||३०|| युतानि ||३८४||२६||||१५|| जातं चन्द्रचक्रदिवसैक्यम् । इदं चन्द्रमासैरेभि ||१२||११|| ३||५२||३०|| रूनं कार्यम् । तत्र सजातीयकरणाय चान्द्र- मासाधो यद्दिनादि तद्विगुणं घटिका इति सम्पादितघटीभिश्चान्द्रमासतुल्यदिनैरेभि ||१२||२२||७||४५|| रूनं जातम् ||३७२|| ३ ||५२||३०|| इदं भभ्रमैरेभि ||३६६॥१५॥ ३०||२२||३०|| रूनं जाता दिनक्षयाः ||५||४८||२२||७||३०|| इदं भाष्यकृदनुक्त- मप्यूह्यम् । चन्द्रचक्रदिवसैक्यमित्यत्र वासना प्रकारान्तरेणोच्यते । रविसावनोनाश्चान्द्रास्ते दिनक्षया भवन्ति । केवलयोः शोध्यशोधकयोर्या- वदन्तरं तावदेवेष्टसंयुक्तयोरपि स्यादिति चन्द्रचक्रतुल्यमिष्टं चान्द्रदिवसेषु संयोज्य जातश्चन्द्रदिवसैक्यतुल्यः शोधकः । तथैव 'रविभगणोनभभ्रमापरपर्यायेषु रविसावनेषु चन्द्रचक्रतुल्यमिष्टं योजितं जातश्चन्द्रमासभभ्रमयोगतुल्यः शोध्यः । भभ्रमेषु रवि- भगणाः शोध्याश्चन्द्रचक्राणि च क्षेप्यानि । तत्र शोध्यक्षेप्ययोरेवान्तरे क्रियमाणे अन्तरं ‘तरणिचन्द्रचक्रजम्' इत्यनेन चान्द्रमासा जाताः । त एव भभ्रमेषु योजिता इति सर्वं निरवद्यम् । नन्वेवं वासना लाघवे धनप्रकारगौरवेण वासना कथनमाचार्यस्य न युक्त- मित्यत आह । एतच्छिष्याणां धनर्णयोगवियोगकोशलार्थं दर्शितम् । अयमर्थः ‘संशोध्यमानं स्वमृणत्वमेति' इत्यस्याव्यक्तगणितोक्तस्य वासना प्रदर्शनार्थमयं प्रकार उक्तः । चन्द्रमासभभ्रमयोगविवर्जितस्य चन्द्रचक्रदिवसैक्यस्य दिनक्षयतुल्यत्वान्यथा- अनुपपत्त्या संशोध्यमानस्य धनणव्यत्यासो युक्त इति भावः ॥ १३ ॥ इदानीमन्यदाह । इन्दुमण्डलगुणेन्दु १३ सद्गुणत्रन्धचक्र विवरेऽधिमासकाः । खेचरोच्चभगणान्तरोन्मिताः सन्ति मन्दचलकेन्द्रपर्ययाः ॥ १४ ॥ २ १. भगणेन गपु० । २. एषां पर्यंयाणां निबन्धनश्लोका वापूदेवशास्त्रिकृताः । “मन्दकेन्द्रभगणा नखेषुगोनन्दनन्दनवभूत्रिसागराः ४३१९९९९५२० । तीक्ष्णगोर्द्विमनुवेदनवाब्जाक्षाङ्गपक्षनगसायका विधोः ५७२६५१९४१४२ ॥ खरामाश्व्यहिद्व्यष्टषड्गोद्विदस्रा २२९६८२८२३० गजाङ्गाङ्गगोगोङ्कगोभूत्रिवेदाः ४३१९९९९६६८ ।