पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारे ग्रहानयनाध्यायः दर्शान्ततो याततिथिप्रमाण: सौरैस्तु सौरा दिवसा: समेताः । यतोऽधिशेषोत्थदिनाधिकास्ते त्यक्तं च तस्मादधिमासशेषम् | तिथ्यन्तसूर्योदययोस्तु मध्ये सदैव तिष्ठत्यवम |वशेषम् । त्यक्तेन तेनोदयकालिकः स्यात् तिथ्यन्तकाले द्युगुणोऽन्यथाऽतः । इति ||१-३॥ इदानीं ग्रहानयनमाह। ५५ द्युचरचक्रहतो दिनसञ्चयः क्वहहृतो भगणादि फलं ग्रहः । दशशिरः पुरि मध्यमभास्करे क्षितिजसन्निधिगे सति मध्यमः ॥ ४ ॥ वा० भा० - अहर्गणे भगणगुणे क्वहृते मध्यमो ग्रहो भवति । स च लङ्कायां मध्यमे रवौ क्षितिजासन्ने कदाचिदूर्ध्वस्थे कदाचिदधःस्थिते भवतीति ज्ञेयम् । तत्कारणं गोले कथितं व्याख्यातञ्च ॥ ४ ॥ वा० वा० - इदानीं ग्रहानयनमाह | द्युचरचक्रहत इति । कल्पकुदिनैः कल्पग्रहभगणा: लभ्यन्ते तदेष्टकुदिनैः किमिति ग्रहो भवति । केचिल्लङ्कायां मध्याह्नमध्यरात्रास्तमनकालेषु ग्रहगतिप्रारम्भमिछन्ति तन्मतनिवार- णाय पूर्वक्षितिजस्थ इति । अग्रे चोदयान्तरकर्म वक्ष्यति, तस्मात् सन्निधिग इत्युक्तम् । देशान्तरचरसंस्कारयोर्वक्ष्यमाणत्वाल्लङ्कापूर्वक्षितिजसन्निधिग इति भास्वत्फलसंस्का- रस्य वक्ष्यमाणत्वान्मध्यमभास्कर इत्युक्तम् ॥ ४ ॥ इदानों ज्ञातेऽकेंऽवमशेषाच्चन्द्रमाह | कोट्याहतैरङ्ककृतेन्दुविश्वै - १३१४९००००००० न्यूनाहशेषे विहृते लवाद्यम् । रविघ्नतिध्याढ्यमनेन युक्तो रविविंधुः स्याद्विधुरूनितोऽङ्कः ।। ५ ।। ० वा० भा० -- अस्योपपत्तिः । चन्द्रार्कयोरन्तरभागद्वदिशभिरेकैका तिथिर्भवति । अत- स्तिथयो द्वादशगुणास्तयोरन्तरभागा भवन्ति । ते यदि रवौ क्षिप्यन्ते तदा शशी स्यात् । यदि शशिनः शोध्यन्ते तदाऽकं: स्यात् । इति युक्तमुक्तम् । किन्त्वेवं तिथ्यन्ते भवति । अथ चन्द्र औदयिक : साध्यः । तत्र तिथ्यन्ता दययोर्मध्येऽवमशेषं वर्तते । तच्च सावनम् । तस्य सावनत्वं गोले प्रतिपादितम् । तच्चानुपातेन चान्द्र कार्यम् । यदि कल्पकुदिनैः कल्पचान्द्रदिनानि लभ्यन्ते तदाऽवमशेषान्तः पातिभिः कुदिन: किमिति । पूर्वमवमशेषस्य चान्द्रदिनानि भागहार इदानीं तानि गुणकार: | तुल्यत्वात् तयोर्गुणकभाजकयोर्नाशे कृते कुदिनानि भागहारः । फलं चन्द्रदिनात्मकं भवति । तद्द्वादशगुणितमंशात्मकं भवति । अतो द्वादशभिः कुदिनानामपवर्ते कृते खाभ्र बाणगिरि- रामखत्रिगोशक्रविश्वमितो भागहार उत्पन्नः । तत्र लाघवार्थमाद्येषु सप्तसु स्थानेषु शून्यान्येव कृत्वा भागहार: पठितः । यतस्तथा कृत एकाऽपि विकला नान्तरं भवति । अतस्तैश्च भाग॒र्युतोऽकं: शशो स्यादित्युपपन्नम् ॥ ५॥ वा० वा० – अथावमशेषज्ञाने रविचन्द्रयोरन्यतरज्ञाने च तदन्यज्ञानमाह- कोट्याहतैरिति । रव्युदयकालिकरवौ रविचन्द्रान्तरयोगेन विधुर्भवति । तत्र रविचन्द्रान्तर- ज्ञानम् । तद्यथा— पूर्वानीतदर्शान्ताद्यस्यां तिथौ रव्युदयकालिकोऽर्को ज्ञातोऽस्ति तत्ति-