पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणौ ग्रहगणिते थ्यवधिका या गतितिथयस्ता द्वादशगुणा रविचन्द्रान्तरांशाः भवन्ति । यतो 'विर- विचन्द्रलवा द्वादशहृता गततिथय इति । परन्तु तद्रविचन्द्रान्तरं गततिथ्यन्तावधि जातम् । अपेक्षितञ्च वर्त्तमानतिथ्युदयावधि । तिथ्यन्तसूर्योदययोर्मंध्येऽवमशेषं तत्त्वहर्गणानयने ज्ञातमेवास्ति । तिथ्यन्तकालिकोदयकालिकयोरहर्गणयो- रन्तरमिति तदवमशेषं सावनम् । अवमशेषतो रविचन्द्रान्तरांशज्ञानार्थमनुपातः । यद्येकेन सावनेन रविचन्द्रग त्यन्तरांशा एते १२|११|२७|| लभ्यन्ते तदाऽवमशेषान्तः पातिना किमिति गत्यन्तरांशैरवमशेषं गुणनीयम् । शेषस्य कल्पचान्द्राः हरः । गुण- हरौ गुणेनापवर्त्य शिष्यक्लेशो मा भूदित्याचार्येणाद्येषु सप्तस्थानेषु शून्यान्येव गृहीत्वा हरः पाठपठित इति सर्वं निरवद्यम् ॥५॥ इदानीमधिमासावमशेषाभ्यां चन्द्रार्कानयनमाह ००००००० खाप्तं न्यू नाहशेषे विहृते कलाद्यम् तत् स्याद्धनाख्यं तरणेविंधोस्तत् त्रिभृहतं स्वेषुगुणांशयुक् स्वम् ।। ६ ।। चैत्रादियातांस्तिथयः पृथक्स्था विश्वैर्हताः सूर्यविधू लवाद्यौ । तौ चाधिशेषाच्छशिमासलब्ध्या हीनौ युतौ स्वस्वधनाह्वयाभ्याम् ।।७।। कोट्याहतैर्यद्भवभै-२७११०० वा० भा० - अवमशेषाद्भवः कोटिगुणभक्ताद्यल्लब्धं कलाद्य तद्रवेर्धनसंज्ञं भवति । तदेव फलं त्रयोदशगुणं स्वकीयेन पञ्चत्रिंशदंशेन युतं विधोधनसंज्ञं भवति । अथ चैत्रादिगतास्ति- थयो द्विः स्थाप्याः । द्वितीयस्थाने विश्व - १३ गुणास्तावंशात्मकौ रविचन्द्रौ भवतः । परमधिमा- सशेषाच्छशिमासभक्ताद्यत् फलं तेन द्वावप्यूनीकृतौ । स्वस्वफलेन धनाख्येन युक्तौ कृतौ । अत्रोपपत्तिः । रविवर्षान्ताद्यावन्तोऽर्कदिवसा गतास्तावन्तोऽर्कभागाः किल भवन्ति । ते कियन्त इति न ज्ञायन्ते । रविवर्षान्तोऽपि न ज्ञायते । अतश्चैत्रादेर्गतास्तिथयो यावन्तस्तावन्त एव सौराहा: कल्पिताः । यथाऽहर्गणानयने स एव भागात्मको रविः । असौ पृथग् विश्वगुणः कृतः । यतस्ताभिरेव द्वादशगुणाभिस्तिथिभिर्युक्तः कर्तव्यः । तिथौ तिथौ हि रविचन्द्रान्तरं द्वादश भागाः | अथ चैत्रादिगततिथितुल्याः सौराहाः कल्पितास्तेऽधिमासशेषसं भूतैश्चन्द्रदिनैरधिका जाताः । यतो मध्यमशेषसंक्रान्तिकालो रव्यब्दान्तः | तस्य चैत्रादेश्चान्तरं तिथ्यात्मक मधिमासशेषम् | यथा गोले कथितम् । १. रविचन्द्रग पु० अत्र श्रीपतिः । ३. २. जाता गपु० । कल्पाधिमासगुणितादवमावशेषात् क्ष्माहोद्धृतात् फलतं ह्यधिमासशेषम् । मासादिकं फलमतः शशिवासरैः स्यात् क्षमाहैर्हताच्च दिवसाद्यवमावशेषात् || सि० शे० मध्य० २१ श्लो० चैत्रादितो विगतमासदिनैयुंतं तत् कृत्वा दिनाद्यथ पृथग्गुणितञ्च विश्वैः । मासादिना विरहिते विहिते क्रमेण यद्वा दिवाकरतुषारकरी भवेताम् ॥ सि० शे० मध्य० २२ श्लो०