पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारे ग्रहानयनाध्यायः 22 "दर्शाग्रतः सङ्क्रमकालतः प्राक् सदैव तिष्ठत्यधिमासशेषम् । ५७ इति । तत् तावत् सौरचान्द्रान्तरमधिकं जातम् । तथा कल्पितचन्द्रदिनसंबन्धि यत् सौरचान्द्रान्तरं तदप्यधिकं जातम् । तदप्यधिमासशेषसंभूतम् । एतदुक्तं भवति । अधिमासशेषात् त्रिंशद्गुणात् स्वच्छेदेन हृताद्य लभ्यन्ते ते चान्द्राहाः | तेषां चान्द्राणां यावन्तः सौरा भवन्ति तैरधिकोऽको जातः । अतस्ते शोध्याः तेषां चान्द्राणां सौरकरणायानुपात: । यदि कल्पचान्द्राहैः कल्पसौराहा लभ्यन्ते तदाऽधिमासशेषस्थैः किमिति पूर्वमधिमासशेषस्य त्रिंशद्गुणस्य सौराहा भागहार इति स्थितम् । इदानीं गुणहारस्तुल्यत्वात् तयोर्नाशे कृतेऽधिमासशेषस्य चान्द्राहा भागहारः । ततः पुनर्भाज्यभाजकयोस्त्रिशताऽपवर्तने कृतेऽधिमासशेषस्य चान्द्रमासा भागहारः । फलं सौराहाः । त एव भगणाः । तैरूनः कल्पितोको निरन्तरः स्यात् । परं तिथ्यन्ते । असावौ- दयिकः कार्य: । तिथ्यन्तार्कोदययोर्मध्येऽवमशेषम् । तच्च सावनम् । तेन चन्द्रार्कावौदयिकौ कार्यो । तत्रानुपात: यदि चान्द्राहतुल्येन परमावशेषेण रविगतिर्लभ्यते तदेष्टेनानेन किमिति | एवमवमशेषं रविगत्या गुणनीयं चान्द्राहैर्भाज्यम् । अत्र गुणकभाजकयो रविगत्याऽपवतें कृते भागहारे किञ्चित् प्रक्षिप्य कोट्याहतभवभतुल्यः सुखार्थं भागहारः कृतः । स्वल्पान्तरत्वात् । तेन भागहारेणावमशेषे भक्ते याः कालभ्यन्ते ताः कला रवौ क्षेप्या इति धनसंज्ञाः । अथ चन्द्रस्य परमेऽवमशेषे चन्द्रगतितुल्या: कला भवन्ति । अतो रविगत्या चन्द्रगतौ हृतायां स्वपञ्चत्रंशदंशा- धिकास्त्रयोदश १३३३ लभ्यन्ते । अतो रवेर्धनफलं त्रयोदशगुणं स्वपञ्चत्रिंशदंशाधिकं चन्द्रस्य धनं भवतोत्युपपन्नम् । एवं स्वस्वफलेनाधिकौ तिथ्यन्तकालिकौ भवत इति सर्वं निरवद्यम् ॥ ६-७ ॥ वा० वा० – इदानीं चन्द्रार्कानयनमधिमासावमशेषाभ्यामाह कोट्याहतैर्य- द्भवभैरिति । यस्मिन् चैत्रशुक्लादितो वर्त्तमानमासि यस्यां वर्त्तमानतिथौ सूर्योदये रवि- चन्द्रौ कर्तुमिष्टौ तद्द्वससाधिताहर्गणादधिमासावमशेषे ज्ञातव्ये । 'नन्वधिशेषमिदमवमशेषञ्च कयोरन्तरं किं जातीयमिति चेदुच्यते । कल्प- सौराहगणस्य खण्डत्रयम् । एकं तावत्कल्पादे: सममीप्सितकालनिकटपतितगताधि- मासान्तावधि । २ निकटपतिताधिमासान्तादिष्टसौरवर्षावधि द्वितीयम् । तृतीयन्तु चैत्रा- दिगतमासगततिथ्यवधिका ये चान्द्रास्तत्तुल्यसौराहात्मकम् । इदं तृतीयखण्डं सौर- वर्षादितश्चैत्रादिमासेष्टतिथ्यवधि ये वास्तवाः सौराहास्तेषामज्ञातत्वेनेदृशमङ्गीकृतम् । एवं खण्डत्रययोगः सौराहगण इति । कथितकल्पगतोऽर्कसमागणो रविगुणो गतमाससमन्वितः । खदहनैर्गुणितस्तिथिसंयुत इत्यनेन कृतः । अस्य सौराहगंणस्य चान्द्रीकरणमनुपातेन । कल्पसौरै: कल्पाधिमासास्तदेष्ट- सौरैः किमिति लब्धं सावयवं गताधिमासादि । इदं दिनीकृत्य सौराहणे योज्यं चान्द्रद्युगणो भवति । यद्वा गताधिमासानां सावयवानामपि खण्डत्रयं कृतम् । एकं लब्धाधिमासानामेव ये दिवसास्तत्तुल्यम् । द्वितीयमष्टसौरवर्षादिजशुद्धिदिनतुल्यम् । २. सांतष्टसौ ग पु० ९. मिवमवम क ख पु० । सि० – ८