पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८ सिद्धान्तशिरोमणौ ग्रहगणिते तृतीयन्तु सौरवर्षादित इष्टचान्द्रमासगततिथितुल्यसौरावधि यदधिशेषं तत्तुल्यम् । प्रथमसौराहर्गणखण्डे प्रथमं लब्धाधिमासदिवसतुल्यं योजितं जाताश्चान्द्राः । द्वितीय- खण्डे सौरवर्षादिजा' शुद्धिर्योज्या तत्रापि चान्द्राः भवन्ति । तृतीयेऽपि सौरवर्षादितश्चैत्रादिगतचान्द्रतुल्यसौराहजनितं योजितम् । त्रयाणां योगे चान्द्रद्युगणो भवति । परन्तु सौरवर्षादितश्चैत्रादिगतचान्द्रतुल्यसौराहाः यस्मिन् काले भवन्ति तत्कालीनः । अपेक्षितस्तु चैत्रादित एव चैत्रादिगतचान्द्रान्तावधि । अनयो- रन्तरमधिशेष पूर्वमनुपातसिद्धम् । इदं शोध्यम् । पूर्वं पृथक् पृथक् खण्डत्रयेण योज- नीयमधुना युगपदेव हेयमिति लब्धादिमासा एव दिनीकृत्य योज्या इत्युक्तम् । चैत्रा- दितश्चैत्रादिगतचान्द्रदिवस ये कल्पादिगतचान्द्रास्तेषामथ च सौरवर्षादि- तश्चैत्रादिगतचान्द्रतुल्यसौराहावधि ये कल्पचान्द्रास्तेषामन्तरम् । इदं चान्द्रमेव तिथ्यात्मकम् । अतो वक्ष्यते गोले । सौरेभ्यः साधितास्ते चेदधिमासास्तदैन्दवाः' । एवमहर्गणतः कल्पगतसाधने यश्चान्द्रगणः समायाति स तु कल्पादिमारभ्य चैत्रादितश्चैत्रादिगतचान्द्रावधि | तस्मादधिमासेषु साध्यमानेषु यदधिशेषं समायाति तत् सौरम् | यस्माच्चै- त्रादिगतचान्द्रान्तावधि ये सौरा: सौरवर्षादितश्चैत्रादिगतचान्द्रतुल्यसौराहावधि ये सौराश्च तेषामन्तरम् । अत एव वक्ष्यते 'चेच्चान्द्रेभ्यस्तदा सौरा' इति । सौरेभ्योऽधि- माससाधनं चान्द्रीकरणार्थमेव करिष्यति । एवमेवमेष्वपि योज्यम् । सौरवर्षादौ रविः शून्यम् । सौरवर्षादित इष्टकालावधि यावन्तः सौराहास्तावन्तोऽर्कभागाः स्युः । चैत्रा- दितश्चैत्रादिगतचान्द्रान्ते रविरपेक्षितः । सौरवर्षादित इष्टकालावधि ये सौरास्ते- षामज्ञातत्वेन चैत्रादिगतचान्द्रा यावन्तस्तावन्त एव सौरवर्षादितो रवेरंशा इति कल्पितम् । तत्राधिशेषं शोध्यं पूर्वन्यायेन । परन्तु सौरमधिशेषमेव कल्पितसौरेभ्यो हातुमुचितं वास्तव सौरज्ञानार्थम् । यत्तु सिद्धमधिशेषं तत् तिथ्यात्मकमिति निरूपितम् । अधिशेषस्य सौरीकरणायानुपात: । कल्पचान्द्रः कल्पसौरास्तदेष्टाधिशेषेण त्रिंशद्गुणितेन कल्पसौराहभक्तेन किमिति सौरतुल्ययोर्गुणहरयोर्नाश त्रिशता चान्द्रेषु भक्तेषु चान्द्रमासा एव भवन्ति । तस्मादधिशेषाच्छशिमासलब्ध्या हीनाश्चैत्रादिगत- तिथयो रव्यंशा इष्टतिथ्यन्ते भवन्ति । अस्मिन् रवौ शुध्यूनचैत्रादिगततिथयो द्वादश- गुणा योज्याः । स च सौरवर्षादेश्चन्द्रो भवति ।। अत्र सौरवर्षादिजश्चन्द्रो योज्य: । द्वादशगुणिता शुद्धिः सौरवर्षादौ लवाद्यश्चन्द्रो भवति । तिथ्यन्तसूर्योदययोर्मध्येऽवम- शेषम् । तच्चान्द्रगणसिद्धत्वात् सावनम् । १ जाद्वियों गपु० । २. मथे गपु० । ३. सि० शि० गो० म० ग० १३ श्लो० । ४. सौरि गपु० ।