पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारे भगणाध्यायः यथोक्तं क्रान्तिवृत्तं भगणांशाङ्कितञ्च कृत्वा कदम्बद्वयकीलयोः 'प्रोतमन्यच्चलं ग्रहवेध- वलयं तच्च भगणांशाङ्कितं कार्यंम् । ततस्तद्गोलयन्त्रं सम्यग् ध्रुवाभिमुखयष्टिकं जल- समक्षितिजवलयञ्च यथा भवति तथा स्थिरं कृत्वा गोलस्थमीनान्तं रेवतीतारायां निवेश्य गोलमध्यस्थ दृष्टया ग्रहोऽवलोकनीयः । ततो वेधवलयं ग्रहोपरि निवेशनीयम् । तद्वेधवृत्तं यत्र क्रान्तिवृत्ते लगति तस्य मीनान्तस्य यदन्तरं स तस्मिन् काले स्पष्टो ग्रहो ज्ञेयः । वेधवृत्ते यत्क्रान्तिवृत्त - वेधवृत्त सम्पाताग्रहपर्यन्तं यदन्तरं सोऽस्फुटश रो वेद्यः५। एवमन्वहं॰ स्पष्टग्रहोऽवलोकनीयः । पूर्वं यस्मिन्नेव काले दृष्टस्तस्मिन्नेव काले द्वितीय दिवसेऽपि वेध्यः । तत: ' स्फुटग्रहं मध्यखगं प्रकल्प्य कृत्वा फले मन्दचले तथोक्ते याभ्यां मुहुर्व्यस्तधनर्णकाभ्यां सुसंस्कृतो मध्यखगो भवेत् सः । इत्यनेनाद्यतनश्वस्तनमध्यमौ ज्ञेयौ । तयोरन्तरं मध्यमा गतिः । तया त्रैराशि- केन कल्पभगणाः साध्या: । एवमिदं ग्रहभगणसाधनं ब्रह्मगुप्तेनाप्युक्तत्वान्नास्माकम- सम्बद्धाभिधायित्वमापादयतीत्याह- तथा चाह श्रीमान् ब्रह्मगुप्तः - 'ज्ञातं कृत्वा मध्यं ( म ? ) भूयोऽन्यदिने तदन्तरं भुक्ति: । त्रैराशिकेन कल्पग्रहमण्डला नयनम् || भुक्त्या मन्दतुङ्गचलतुङ्गभगणज्ञाने किल ग्रहभगणज्ञानमुक्तम् । कथं पुनर्मन्दचलोच्च- भगणज्ञानम् । किमत्र वक्तव्यम् । उक्तमेवास्माभिः सौरभाष्ये । तद्यथा तत्र तावद्ग्रह - च्छाया लक्षणीया । सा चैवम् । ' पश्येज्जलादौ प्रतिबिम्बितं वा खेटं दृगौच्यं गणयेच्च लम्बम् । तल्लम्बपातप्रतिबिम्बमध्यं दृगौच्च्यहृत् सूर्यहतं प्रभा स्यात् ।। १० इति छाया भवति । तस्याः दिनगतसाध्यम् । तद्भूपृष्ठस्थक्षितिजादूर्ध्वं भवति । गतिविधिनापि दिनगतमानयेत् । तद्भूगर्भस्थक्षितिजादूर्ध्वं भवति । तासां नाडीना- " मन्तरं कृत्वा अनुपातः कार्य: यद्यनेनान्तरेण भूव्यासार्धयोजनानि लभ्यन्ते तदा षष्टिघटीभिः" किमिति स्पष्टा ग्रहकक्षा भवति । चन्द्रादिकक्षासु परिधिषण्णवत्यंशस्य धनुर्ज्यातुल्यत्वस्वीकारात् । शाकल्ये । परिधेः षण्णवत्यंशो दण्डवद्यः समः स तत् । १. प्रेतमिति ख पु० ३ निवेशनिय इति ख पु० । ५. वद्य ख पु० । ८. ब्राह्म स्फु० १९ अ० १२ इलो० । १०. मंन्त कृ० ख पु० । २. मिना ख पु० । ४. वेधवृत्तेति ख पु० न लभ्यते । ६. मन्वहः, इति गपु० । ७. सि० शि० स्प० ४५ श्लो० । ९. ग्र० ला० ग्र० छा० २ श्लो० । ११. धटिभिः कपु० ।