पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४० इत्युक्तेर्द्ययातान्तरघटीभिर्भूव्यासार्द्धयोजनानि लभ्यन्ते तदा षष्टिघंटीभिः २ किमित्यनुपातो युक्तः । ततः 'कक्षापरिधेर्व्यासार्द्धं साध्यम् । स योजनकर्णो भवति । परमाधिकाल्पयोजनकर्णयोर्योगार्धं मध्यमकर्ण: । यद्वा चन्द्रकक्षां स्पष्टां ज्ञात्वा स्पष्ट- गत्या 3 इयं तदा मध्यगत्या केति चन्द्रमध्यकक्षा स्यात् । सा चन्द्रभगणगुणा स्वस्व- भगणभक्ता स्वस्वमध्यकक्षा स्यात् । तस्याः व्यासार्धं मध्यमयोजनकर्णो भवति । ग्रहरेवतीसंयोगादन्यसंयोगोपलक्षितकालेन भगणज्ञानं सुलभम् । स तु — लिप्ताश्रुतिघ्नस्त्रिगुणेन भक्तः स्पष्टो भवेद्योजनकर्ण एवम्' इति जातः । तस्मात् स्पष्टयोजनकर्णस्त्रिज्यागुणो मध्यमयोजनकर्णस्त्रिज्यागुणो मध्यमयो- जनकर्णभक्तश्चलकर्णो भवति । ग्रहस्य कक्षाचलकर्णनिघ्नी स्फुटा भवेद्व्यासदलेन भक्ता । ५ तद्व्यासखण्डान्तरितः कुमध्यात् स भ्राम्यते हि प्रवहानिलेन । इत्युक्तेः । एवमिष्टदिवसे चलकर्ण: " साध्यः । एवमन्वहं 'शरा वेद्याः । यत्र दक्षिणशरा- भावस्तत्र यावान् ॰ ग्रहः स भगणशुद्धः पातो ज्ञेयः । एवमसकृत्पातगतिज्ञेया । तया पातभगणज्ञानं चन्द्रादीनाम् । सपातमन्दस्पष्टदोर्ज्यायाः शीघ्रकर्णतुल्यत्वे' यावान् शर उपलभ्यते स पठितशर इत्युच्यते । असौ सपातमन्दस्पष्टदोर्ज्यागुण इष्टशीघ्रकर्णभक्त इष्टशरो भवति । तस्माद्वेधसिद्धशरोऽभिमतस्त्विष्टशीघ्रकर्णगुणस्त्रिज्याभक्तो यावान् सम्पद्यते स एव शरो वेद्यः । एवमन्वहमेतादृशः शरो वेद्यः । सिद्धान्तशिरोमणौ ग्रहगणिते एवमीदृशः शरो यदा परमो भवति स एव पठितश रस्तत्र सपातमन्दस्पष्टदोर्ज्या त्रिज्यातुल्या' । एवं पठितशरं ज्ञात्वा वेधेनेष्टशरञ्च ज्ञात्वेष्टसपातमन्दस्पष्टदोर्ज्याज्ञानो- पायः" । वेधसिद्धेष्टशरः कक्षाप्रकारावगतचलकर्णगुणः पठितशरभक्तः सपातमन्दस्पष्ट - दोर्ज्या स्यात् । तस्या धनुः सपातमन्दस्पष्टः स्यात् ।" [ पातोनो मन्दस्पष्टः स्यात् । ] एवं प्रत्यहं मन्दस्पष्टो वेद्यः । यत्र मन्दस्पष्टगते रल्पत्वं तद्दिने यावान्मध्यमस्त- त्तुल्यमुच्चं ज्ञेयम् । एवं "कालान्तरेणोच्चगतिः । यदा शीघ्रकर्णः परमस्तदा यावान् ग्रह उपलभ्यते वेधेन तत्तुल्यमेव शीघ्रोच्चं वेद्यम् । परमशीघ्रकर्णस्य त्रिज्यायाश्चान्तरं शीघ्रान्त्यफलज्या। ततः प्रात्यहिकशीघ्रफलज्ञानं सुगमम् । परमाधिकपरमाल्पमन्द- स्पष्टगत्योर्योगार्धं मध्यमा गतिः । गतिर्नामाद्यतनश्वस्तनग्रहयोरन्तरं प्रसिद्धम् । १. वक्षा क पृ० । २. मध्य कपु० । ४. भक्तया ख, तक्ता ग पु० च । चकर्णः खपु० । यावत् खपु० । तुल्य इ० खपु० । अयमंश: ख पुस्तके नावलोक्यते । ५. ७. ९. ११. ३. गत्येयं कग, गत्यं ख पु० । ६. सारा खपु० । ८. वल्पत्वे गपु० । १०. १२. ज्ञालां खपु० । ज्ञाने तु ख ज्ञाने उपागपु० च ।