पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणौ ग्रहगणिते दक्षिणान्तरेण किमिति या लभ्यन्ते घटिकास्ताभिर्युक्तानि पञ्चषष्ट्यधिकशतत्रयतुल्यानि सावनानि सायनार्कस्य भगणभोगकाले भवन्ति । ३८ ततो वर्षमध्ये यावानयनांश विप्रकर्षस्तत्कालमानीय तेषु सस्कार्यं, तानि निरय नांशार्कभंगणभोगकाले सावनानि भवन्ति । रेवतीयोगतारासंयोगादन्यरेवतोयोगतारा- सम्बन्धो यावता कालेन भवति तावान् कालो भगणभोगकाल इत्युच्यते 'पौष्णान्ते' भगणः स्मृत' इति सौरश्रवणात् । 'यवनास्तु दक्षिणक्रान्त्यभावस्थानमेव' मेषादि मन्यन्ते । तत्रास्मन्मते सावनानि ||३६५|१५|३०|२२|३०|| एतान्येव पौलिशेनोक्तानि । सौरमते सावनानि ३६५|१५||३१||३०||२४|| एवं रोमकमतादिष्वन्यादृशानि । ततोऽनु- पातः । यद्येकेन वर्षेणतावन्ति तदा कल्पवर्षैः किमिति कल्पसावनानि भवन्ति । अथ तैरेव वर्षान्तः पातिभिः सावनैश्चककला तुल्या गतिस्तदैकेन किमिति रविगतिः । नैवमुदयवेधेन भौमादीनां सावनानि साधयितुं शक्यन्ते । तेषामुदयस्य दृक्कर्म- वशेनान्यादृशत्वात् । अत एवाहुः --- ‘वक्रवक्त्रखचरैकपर्यंये पूर्ववद्दिनगणं समानयेत् । तन्महत्वलघुतैक्यखण्डकं तेन कल्पभगणांश्च साधयेत्' || इति । अथ चन्द्रादिभगणोपपत्तिः । तत्रादौ ग्रहवेधार्थं गोलबन्धोक्तविधिना विपुलं गोलयन्त्रं कार्यम् । तत्र खगोलस्यान्तभंगोले आधारवृत्तद्वयस्योपरि विषुववृत्तं तत्र १. सू० सि० म० २७ श्लो० । ३. मेवेति ख पु० न दृश्यते । यथा १ वेदाङ्ग ज्योतिषे २ पितामह सिद्धान्ते ३ पुलिश ४ 2) ५ वसिष्ठ ६ रोमक ७ पाराशर ८ आ० पं० ९ प्रथम आर्यभट्ट १० द्वितीय ११ ब्रह्मगुप्त १२ नित्यानन्द 21 " "} "" " "1 71 11 17 १३ वटेश्वर १४ सिद्धान्तसम्राजि ५. मादिना, इति ख पु० । ७. न्धोक्तो ख पु०, न्धोक्त्यक पु० च० । " २. यवणास्तु ख पु० वा० । ४. विविधसिद्धान्तग्रन्थेषु वर्षमानम् । ३६६।०।० ३६५/२१ | २५ ३६५।१५।३० ३६५ |१५|३१|३० 01010 ३६५|१४|४८ ३६५|१५|३१|१८|३० ३६५ | १५ | ३१|३१|३४ ३६५ | १५ |३१|१५ ३६५|१५|३१|३० ३६५|१५|३०|२२|३० ३६५|१४|३१|१५ ३६५।१५।३१।१५ ३६५|१४|३१| ६. चक्रवक्त्र इति ख पु० ।