पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारे भगणाध्यायः ३७ ग्रतः कदाचित्पृष्ठतस्तस्यानुचराविव व्रजन्तौ दृश्येते तस्मात्तयोरपि भगणा रविभगण- तुल्या इति । कुजगुरुशनीनां मध्यमानामग्रस्थे मध्यमार्के मन्दस्पष्टात् स्पष्टग्रहोऽग्रतो दृश्यते पृष्ठस्थे पश्चात् दृश्यत इति । अत एव 'शनिजीवभूभुवां कीर्तिताः सुगणकैश्चलोच्चजाः' इत्युक्तम् । ननु चलोच्चतुल्यत्वे ग्रहस्य गतिबाहुल्यफलाभावबिम्बाल्पत्वान्युपलभ्यन्ते । तत्र कथं यस्मिन्नग्रस्थेऽग्रतः पृष्ठस्थे पृष्ठतो मध्यात् स्पष्टो दृश्यत इत्यनेन फलाभावमात्रं कार्यं स्वकारणचलोच्चज्ञापकमुक्तं भाष्यकृता । यद्यपि कार्यत्रयमध्ये किमपि वक्तव्य- मित्युक्तं तथापि 'कार्यद्वयोपन्यासानादरोऽभिप्रायान्तरमाक्षिपति 3 – ( इति ? ) शून्य- हृदयत्वमापद्येत । अत्रोच्यते । यद्यपि गतिबाहुल्यं चलोच्चतुल्यताज्ञापकमस्ति तथाऽपि नेदं प्राग- वधारितं यदोच्चतुल्यत्वं ग्रहस्य तदा गतिभूयस्त्वमिति । मन्दोच्चतुल्यतायां गतेः परमाल्पत्वदर्शनात् । तस्माद्गति बाहुल्यदर्शनं चलोच्चतुल्यत्वेऽकिञ्चित्करम् । बिम्बाल्पत्वमध्यप्रयोजकत्वम् न केवलं बिम्बाल्पत्वे चलोच्चतुल्यत्वं कारणं सूर्यसान्निध्यस्यापि कारणान्तरस्य विद्यमानत्वात् । किञ्च सौरमते बिम्ब विष्कम्भानां त्रिज्यागुणितानां मन्दकर्णचलकर्णयोगार्द्धा- परपर्यायस्पष्टकर्णभक्तानां स्पष्टत्वाभिधानाद्यदा युगपन्मन्दचलोच्चतुल्यत्वं तदा बिम्बा- ल्पत्वमिति केवलचलोच्चस्य बिम्बाल्पत्वे पाक्षिकी कारणतेति सम्यगुक्तं यत्तुल्ये ग्रहे फलाभावस्तदुच्चमिति । एकस्मिन् सावनाहे कियती रविगतिरिति ज्ञानार्थं सौरवर्षान्त:पातिरवि- सावनज्ञानोपायस्तावदुच्यते । समायां भूमावभीष्टकर्कटेन त्रिज्यामिताङ्करङ्कितेन वृत्तं दिगङ्कितं भगण- कलाङ्कितञ्च कृत्वा तन्मध्यकीले सूक्ष्माग्रद्वयवतीं केन्द्रादुभयतो नातिदूरे प्रदेशे तुर्य वत्कृतवेधकर्णद्वयशालिनीं सूक्ष्मशलाकां मध्यच्छिद्रवतीं निवेश्य रवेरुदयो वेयः । यस्मिन् दिने दक्षिणक्रान्त्यभावो भविता तस्मिन्ननेहसि प्राचीचिहाइक्षिणतो नातिदूरे प्रदेशे उत्तरेऽयने रविबिम्बार्द्धेऽभ्युदिते तथा शलाका चालनीया यथा युगपत् कर्णरन्ध्रान्तोऽ कंतेजः प्रविशेत् । एवं कृते शलाकाग्रं यत्र परिधौ स्पृशति तत्पूर्वोदयस्थानमित्युच्यते ततो वर्षमेकं रव्युदया गणनीयाः, ते च पञ्चषष्ट्यधिकेन शतत्रयेण तुल्याः भवन्ति तत्रान्तिमोदयः५ पूर्वोदयस्थानादासन्नो दक्षिणत एव भवति । तयोरन्तरं विगणय्य ग्राह्यम् । ततोऽप्यन्यस्मिन् दिने पुनरुदयो वेध्यः । स तु पूर्वचिह्नादुत्तरत एव भवति • तदप्युत्तरमन्तरं ग्राह्यम् । ततोऽनुपात: यद्यन्तरकलाभिरेकीकृताभिः षष्टिघटिकास्त १. स्वरणचलो ख पु० । २. द्वयोपि न्यासा ख पु० । ३. इतः परं, अन्यथा भगणे भाष्यकारस्य इत्यधिक: पाठो दृश्यते खपुस्तके । ४. ग्रह इति ख पु० । ५. दये ख पु० !