पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणौ ग्रहगणिते कुशलेन सांवत्सराचार्येणैव वक्तुं शक्यते । अत उक्तं - प्रौढ़गणकस्वीकृतमिति । अती- न्द्रियार्थविज्ञाने पुरुषबुद्धिप्रभवा कल्पना न प्रभवतीत्यागमङ्गीकृत्येत्युक्तम् । किं तेनापि सुवर्णेन कर्णघातं करोति यत् । तथा किं तेन शास्त्रेण यन्न प्रत्यक्षतः स्फुटम् ॥ इत्यागमाविशेषात्कमपीत्युक्तम् । एतदेव व्यनक्ति ग्रहगणितेत्यादिना । अय- माशयस्तेषामित्यन्तेन तत्र दृष्टान्तमाह - यथात्र ग्रन्थे' ब्रह्मगुप्तस्वीकृतागमोऽङ्गीकृत इति । आगम एव साम्प्रतोप- लब्ध्यनुसारी प्रमाणं नास्ति । भगणेयत्तासाधनमुपपत्त्येत्युपसंहरति । तर्हि तिष्ठतु तावदुपपत्या भगणानामियत्तासाधनम् । अस्तु वा भगणानामियत्तासाधनं नोपपत्त्या तथापि 'युक्तिरेवोच्यतामित्यत्र नोदयति । अथ यद्यपपत्तिरुच्यते तर्हीतरेतराश्रयदोष- शङ्कया वक्तुमप्यशक्या । स्यात्संस्कृतो” मन्दफलेन मध्यो मन्दस्फुटोऽस्माच्चलकेन्द्रपूर्वम् । विधाय शैघ्रयेण फलेन चैवं खेट: स्फुट: स्यात् ' तथा च । स्फुटग्रहं मध्यखगं प्रकल्प्य कृत्वा फले मन्दचले यथोक्ते ॥ ताभ्यां मुहुर्व्यस्तधनर्णकाभ्यां सुसंस्कृतो मध्यखगो भवेत्सः । इति स्पष्टज्ञाने मध्यमज्ञानं, मध्यज्ञाने स्पष्टग्रहज्ञानमित्यन्योन्याश्रयदोषः । यथेतरेतराश्रयदोषो न स्यात्तथोपपत्ति वक्ष्याम इत्याह । तथापि संक्षिप्तामुपपत्ति वक्ष्यामः । कथमत्रान्योन्याश्रयनिरास इत्यत्राह । इतरेतराश्रयदोषोऽत्र दोषाभासः । गणितकर्मणा सिद्धस्पष्टाद्यदि मध्यज्ञानं तदेतरेतराश्रयदोषः स्यात् । अत्र यन्त्रवेधोप- लब्धस्पष्टान्मध्यज्ञानेनान्योन्याश्रय इत्यभिप्रायेणोक्तं दोषाभास इति । दोषवदाभासत इति । वस्तुतो॰ नान्योन्याश्रय इत्यर्थः । संक्षेपेणोपपत्तिकथने हेतुमाह - उपपत्तिभेदानां यौगपद्येन वक्तुमशक्यत्वात् । भिद्यन्त इति भेदाः प्रकाराः, ते तु शब्दस्य " क्रमिकत्वा- द्युगपद् वक्तुमशक्याः । य एव प्रकार: प्रथममुच्यते स एव कार्यायालं किमनन्तरोक्तया तस्मादुक्तं संक्षिप्तामिति ॥ अथोच्यते । अर्कशुक्रबुधपर्यया इति । कल्पे यावन्ति वर्षाणि तावन्तोऽर्कभंगणा इति । ‘रवेश्चक्रभोगोऽर्कवर्षं प्रदिष्टम् इत्युक्तेः' । बुधशुक्रौ तु रवेरासन्नत्वात् कदाचिद- १. ग्रंथो ख पु० । ३. च्यतो ख पु० । ५. ७. स्पग्रह ख पु० । ९. स्पष्टन्म ख पु० । २. ४. सि० शि० स्पष्टाधि० श्लो० सं० ३४-३५३ । ६. ८. १०. स्तुते ख पु० । लब्धन सा ख पु० । शंकाया ख पु० । सि० शि० स्पष्टा० ४५ इलो० । त्यन्यान्या ख पु० ११. शब्दनस्य ख ५०