पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारे भगणाध्यायः ३५ प्रति कथितं तच्छाकल्येन लिखितं शास्त्रं कालान्तरे किञ्चित्सान्तरं दृष्ट्वा नियतबीज- युतमेव पुनस्तैरुक्तमिति दोषेण बहुधा जातः । तदा कतमस्य प्रामाण्यमिति प्रश्न - स्योत्तर वक्ष्यते भवत्वागमो योऽपि कोऽपीति । कतमस्य प्रामाण्यमित्यत्र तावत् 3 समाधानमुद्भाव्य दूषयति । अथ यद्येवमुच्यते गणितस्कन्धे उपपत्तिमानागमः प्रमाणम् | धर्मानुष्ठानोप ( यो ? ) गितालक्षणं प्रामाण्यमुच्यते । उपपत्तिर्नाम युक्तिः । तत्सहितो यो यदागमः स तदा प्रमाणमिति धर्मानुष्ठानोपयोगीत्युक्तम् । यस्तर्केणानुसन्धत्ते स धर्मं वेदेनेतर' इत्युक्तेः। उपपत्तिमानेवागम: प्रमाणमित्यस्याभिप्रायमाह । उपपत्त्या ये भगणा सिध्यन्ति त एव ग्राह्याः । अयमुपपत्तिमानागम इति तदा स्याद्यदि भगणा- नामियत्तोपपत्त्या स्यात्सा तु कत्तुं न शक्यत इति दूषयति । तदपि न । यतोऽतिप्राज्ञेन पुरुषेणोपपत्तिर्ज्ञातुमेव शक्यते न तया तेषां भगणानामियत्ता कत्तु शक्यते । तत्र हेतुमाह पुरषस्यायुषोऽल्पत्वात् । हेतुं विवृणोति । उपपत्तौ तु यन्त्रेण प्रत्यहं ग्रहो वेध्यः भगणान्तं ' यावत् । एवं शनैश्चरस्य तावद्वर्षाणां त्रिशता भगणः पूर्यते, 'मन्दोच्चा- नान्तु वर्षशतैरनेकैः । यैर्वर्षैर्मंन्दोच्चपातानामेका विकला वर्धते तान्याहुः । अतो नायमर्थः पुरुषसाध्य इति । कस्मात् पुनर्ग्रन्थरचनायां यतन्ते कृतिनः । “भगणेयत्ताप्रधानत्वाच्छात्रस्येत्याशङ्कय "पुरुषायुषोऽल्पतया यद्यपि "भगणानामियत्ता कत्तु न शक्यते तथाप्यन्यान्यपि प्रयोजनानि विद्यन्त इति प्रयोजनवद्ग्रन्थकरण- मित्याह । अत एवातिप्राज्ञगणका: साम्प्रतोपलब्ध्यनुसारिणं प्रौढ़गणकस्वीकृतं कम- प्यागममङ्गीकृत्य ग्रहसाधने आत्मनो गणितगोलयोरतिकौशल ४ दर्शयितुं तथान्यै- र्भ्रान्तिज्ञानेनान्यथोदितानर्थांश्च निराकर्तुमन्यान् ग्रन्थान् रचयन्ति | पितामह - सौर- पराशरादिसिद्धान्तोक्तग्रहगणैः संसाधिता ग्रहा हक्तुल्यतां सर्वदैव न यान्त्यत उक्तं साम्प्रतोपलब्ध्यनुसारिणमिति । अयमिदानी पक्षः संवदतीति "दृग्गणितसाम्यसम्पादन- १. तयोत्तरं ख, प्रश्नस्तस्योत्तरमिति ग पु० च । ३. समाध्यानमिति ख पु० । वेदनेतर ख ग पु० ५. सप्तभिः स्मरहरैः खभूमिभिः सागरैरिषुभिरीक्षणर्तुभिः । वत्सरैदिनकराद्यथाक्रमं मन्दतुङ्गविकला विवर्धते ॥ १ ॥ वत्सरैदिनकरै रसोन्मितैः कृष्णवर्त्मविषयैर्गुणैः शरैः । मेदिनीतनयतो यथाक्रमं प्रोक्तपातविकला विवर्धते ॥ २ ॥ ७. ९. हेतु इति ख पु० मंदाच्चानां ख पु० । ११. पुरुषापुरुषो ख पु० । १३ शते ख पु० २. वक्षाते खपु० । ४. णनु सं.......ख पु० । ६. अथमुप "ख पु० । ८. भगणां यावख, भगणीतं यावक गपु० च । १०. प्रधान्नत्वा ख पु० । १२. भगणानोमिता ख पु० । १४. कौलमिति ख पु० । १५. संपानकु ख ।