पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४ सिद्धान्तशिरोमणौ ग्रहणणिते दिदानीं ग्रहसाधकानुपातफलभूतान्मन्दोच्चशीघ्रोच्चपातग्रहभगणानाह अर्कशुक्र- बुधपर्यंया' इति । अत्रोपपत्तिः भगणोत्पादने युक्ति: । युक्तिज्ञाने कस्याधिकारस्तत्राह । सा तु तत्तद्भाषाकुशलेन तत्तत् क्षेत्रसंस्थानज्ञेन श्रुतगोलेनैव ज्ञातुं शक्यते नान्येन । एतावन्त एव ग्रहपर्यया इत्यत्र किं प्रमाणमित्यत आह । ग्रहमन्दोच्चपाता: स्वस्वमार्गे गच्छन्त एतावतः पर्ययान् कल्पे कुर्वन्तीत्यत्रागमः प्रमाणम् । कलात्मिकगतेः प्रत्यक्षोपलब्ध- भिन्नत्वाद्योजनात्मिकगतितुल्यत्वस्वीकाराद् ग्रहभेदयोगे ग्रहयोरूर्ध्वाधरत्वानुभवाच्च ग्रहकक्षाणां भेदस्य स्पष्टत्वात् स्वस्वमार्गेषु गच्छन्त इत्युक्तम् । यद्यपि यैव ग्रहकक्षा सैव तन्मन्दशीघ्रोच्चेपातानामित्यस्ति तथापि मन्दशीघ्रोच्चपातसाधनाय याः कल्पिता: कक्षास्तदभिप्रायेणोक्तं ग्रहमन्दपाता इति । मन्दपदं चलोपलक्षकम् । यन्त्रवेधादिनापि ग्रहकलाद्यवयवोपलम्भासम्भवान्न प्रत्यक्षेण भगणज्ञानम् । प्रत्यक्षमूलत्वान्नानुमानादि- कमपि भगणानामियत्ताया मूलम् । तस्मात् पितामहोपदिष्टवाक्यान्यागमः प्रमाणमित्युक्तम् । को नामान्यः पिता- महादाप्ततमः स्यात् । ब्रह्मोक्तागमोऽपि शाकल्य विष्णुधर्मोत्तरयोः कथं भिन्नो दृश्यत इति तत्कारणमाह । स चागमो लेखकाध्यापकाध्येतृदोषैर्बहुधा जातः । लेखकदोषो यथा यमाङ्गा इत्यत्र यमागा इत्यनुस्वारराहित्यादि लिखनम् । अध्यापकदोषो यथा कुधराग्नय इत्यत्र सप्ताग्नय इति विवक्षितार्थे शशाङ्क चन्द्राग्नय इति व्याख्याकरणं करणापाटवादिञ्च । अध्येतृदोषोऽपि यमाश्विचन्द्रा इत्यत्र यमाश्वचन्द्रा इति श्रवणादि । “मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह " इत्यादिभीत्या सावधानतया यथा वेदमध्यापयन्ति पठन्ति च न तथा सिद्धान्ता- नध्यापयन्ति न पठन्ति चेति संभवति पाठकाध्येतृदोषोऽत्रेति भावः । यद्वा वस्तुनि द्वैरूप्यासंभवात् कथमागमभेदस्तत्रोत्तरम् । स चागमो लेखकेति । ब्रह्मणा नारदं १. एतद्भगणमानं सिद्धान्तशेखरानुरूपमिति । यथा- 'अष्ट कोटिगुणिताः कृतेषव: ४३२००००००० सूर्यसौम्यभृगुसूनुपर्ययाः । कल्पकालकथितारचलोच्चजा भोममन्दसुरमन्त्रिणामपि ॥ २६ ॥ देववाणनगरौलवायवो लक्षकाभिनिहता ५७७५३३००००० हिमत्विषः । आकृतीष्वहियमाष्टषडङ्कद्वयविनोऽ २२९६८२८ २२ वनिसुतस्य कीर्तिताः ॥ २७ ॥ वेदाष्ट नन्दवसुगोङ्कर साग्निरन्ध्रशैलेन्दवो १७९३६९९८९८४ बुधचलोच्चजमण्डलानि । वाणेषुवेदरसनेत्रयमाब्धिषट्क रामा ३६४२२६४५५ गिरामधिपतेभंगणाः प्रदिष्टाः ॥२८॥ एवमग्रेऽपि । सि० शे० १ अ० २६- ३१ श्लो० । २. प्रमाणः, इति ख पु० । ३. पलाश्विच्च ख० पु० । ४. यमाश्च, इति ख० ग० पु० । ५. महाभाष्ये प्रथमाह्निके व्याकरणप्रयोजनव्याख्यावसरे विलोकनीयमिदं पद्यमिति ।