पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारे भगणाध्या ३३ अथान्येषां शीघ्रोच्चोपपत्तिः । तत्र एत एव शनिजीवभूभुवामित्यादि । उच्चो ह्याकर्षको भवति । तेन स्वकक्षामण्डले भ्रमन् ग्रहः स्वाभिमुखमाकृष्यते । तेनाकृष्टः सन् कक्षामण्डले मध्य- ग्रहावग्रतः पृष्ठतो वा यःवताऽन्तरेण दृश्यते तावत् तस्य फलं मान्दं शैघ्यं वा । अहो उच्चो नाम प्रदेशविशेषस्तेन कथमाकृष्यत इति तदुच्यते । यथोक्तं सूर्यसिद्धान्ते' । "अदृश्यरूपाः कालस्य मूर्तयो भगणाश्रिताः । शोघ्रमन्दोच्चपाताख्या ग्रहाणां गतिहेतवः || तद्वातरश्मिभिर्बद्धास्तैः सव्येतरपाणिभिः | प्राकृपश्चादपकृष्यन्ते यथाऽऽसन्नं स्वदिङ्मुखम् ॥” इत्यादि । एवमत्रोच्चस्य देवताविशेषत्वेनाङ्गीकृतत्वाददोषः । एतदुक्तं भवति । शने- जीवात् कुजाद्वा यदा रवि वर्तते तदा मध्यग्रहात् स्फुटग्रहोऽग्रतो दृश्यते । यदा तु पृष्ठगतोऽकं- स्तदा मध्यात् स्फुटग्रहः पृष्ठतो दृश्यते । अतस्तेषां त्रयाणां रविसमं शीघ्रोच्चं धीरैः कल्पितम् । अतो रविभगणटुल्याः शीघ्रोच्चभगणा इत्युपपन्नम् । अथ मन्दोच्चोपपत्तिः । तत्र वेधेन स्फुटग्रहं ज्ञात्वा तं मन्दस्फुटं प्रकल्प्य ततः शीघ्र- फलमानीय तत् तस्मिन् स्फुटे विलोमं कृत्वैवमसकृन्मन्दस्फुटो ज्ञेयः । एवं प्रत्यहं मन्दस्फुटो ज्ञेयः । एवं प्रत्यहं मन्दस्फुडमुपलक्ष्य स मन्दस्फुटो धनमन्दफले क्षीयमाणे यस्मिन् दिने मध्यमतुल्यो भवति तदा तत्तुल्यमेव मन्दोच्चं ज्ञेयम् । ततस्तस्माद्रविमन्दोच्चवद्भगणाः कल्प्या: । एवं सर्वेषाम् । अथ बुधशुकयोः शीघ्रोच्चोपपत्तिः । तत्र रविशुक्रपो: पूर्वस्यां दिशि चक्रयन्त्रवेघेनान्तर- भागा ज्ञेयाः । ते तयोः स्फुटयोरन्तरांशा जातास्तै: स्फुटार्काद्विशोधितैः स्फुट: शुक्रो भवति । ततः शुक्रस्य मन्दफलमानीय तत् स्फुटे शुके धनणं व्यस्तं कार्यम् | रविश्च मध्यमः कार्यः | तयोर्यदन्तरं तच्छीघ्रफलमृणं धनञ्च ज्ञेयम् । एवं प्रतिदिनवेधेन तच्छोघ्रफलं परममृणं ज्ञातव्यम् । तत् तादृक् फलमर्कात् तिर्थक स्थितेनोच्चेनाकृष्टस्य भवति । तच्च तिथंकुस्थत्वं त्रिभान्तरितस्य स्यात् । अतस्तत्र त्रिभोनेन स्फुटशुक्रेण तुल्यं शीघ्रोच्चं ज्ञेयम् । एवं पुनरन्यस्मिन् पयंये प्राच्या- मेवान्यच्छीघ्रोच्चं ज्ञात्वाऽनुपात: क्रियते । यद्येतत् कालान्तर दिनैस्तयो रुच्चयोरन्तरमिदं लभ्यते तदैकेन किमिति । फलं तुङ्गगतिः । प्राग्वत् तया भगणाः । एवं बुधस्प पि| अथ भौमादोनां वेधेन प्राग्वदक्षिणविक्षेपाभावस्थाने यावान् मन्दस्फुटो ग्रहश्च क्रशुद्धस्तावान् पातः । बुधशुक्रयोस्तु तदा मन्दफलाव्यस्तसंस्कृतं यावच्छोत्रोच्चं चक्रशुद्धं तावान् पातो ज्ञेयः | ततः प्राग्वद्भगणकल्पना ॥ १-६॥ ० – अथेष्टकालिक ग्रहसाधनोपयोगितया भगणादिज्ञानस्यावश्यकत्वा- वा० वा०- १. स्पष्टा० १-२ श्लो० । सि० - ५