सिद्धान्तशिरोमणौ ग्रहगणिते तथैवोच्चस्थानं ज्ञेयम् । तच्च पूर्वस्थानादग्रत एव भवति । यत्तयोरन्तरं तज्ज्ञात्वाऽनुपात: क्रियते । यद्यतावद्भिरन्तरदिनैरिदमुच्चयोरन्तरं लभ्यते तदैकेन किमिति । फलं तुङ्गगतिः । तयाऽनुपातात् कल्पभगणाः । ३२ अथ चन्द्रपातभगणोपपत्तिः । एवं प्रत्यहं चन्द्रवेधाद्दक्षिणविक्षेपे क्षोयमाणे यस्मिन् दिने विक्षेपाभावो दृष्टः क्रान्तिवृत्ते तत् स्थानं चिह्न यित्वा तत्र यावान् विधुः स भगणाच्छुद्धः पातः स्यादिति ज्ञेयम् । पुनरम्यस्मिन्नपि पर्यये दक्षिणविक्षेपाभावस्थानं ज्ञेयम् । क्रान्तिवृत्ते तत् स्थानं पूर्वस्थानात् पश्चिम एव भवति । अतो ज्ञाता पातस्य विलोमा गतिः । सा चानुपातात् । यद्य- तत्कालान्तरदिनैरेतावत् पातयोरन्तरं लभ्यते तदैकेन किमिति । फलं पातगतिः । तया प्राग्वत् कल्पभगणाः । अथ रवितुङ्गोपपत्तिः । मिथुनस्थे रवौ कस्मिंश्चिद्दिने रेवतोतारकोदयाद्यावतीभिर्घटि- कभीर विरुदितस्तावतीभिर्मीनान्ताललग्नं साध्यम् यल्लग्नं स तदा स्फुटो रविज्ञेयः । एव- मन्यस्मिन् दिनेsपि तयोः स्फुटार्कयोरन्तरं गतिः . एवं प्रत्यहं स्फुटगतयो ज्ञातव्याः । यस्मिन् दिने गते: परमाल्पत्वं तद्दिने यावान् रविस्तावदेव रवेरुच्चं भवति । तस्योच्चस्य चलनं वर्षशतेनापि नोपलक्ष्यते । किन्त्वाचार्येश्चन्द्रमन्दोच्चवदनुमानात् कल्पिता गतिः । सा चैवम् । यैभंगणे: साम्प्रताहर्गणाद्वर्षंगणाद्वा एतावदुच्चं भवति ते भगणा युक्त्या कुट्टकेन वा कल्पिताः '। स्वल्पान्तरादाद्रिभागमितस्योपलब्धौ १. अत्र शास्त्रिवापूदेवेन रविमन्दोच्चस्य कुट्टकयुक्त्या यद्भगणानयनं कृतं तत् प्रदश्यते । तथा हि सप्ताष्टात्यष्टिमिते शालिवाहनशके कल्पगतवर्षगण: १९७२९४८९६६ अथ रविमन्दो- च्चकल्पभगणप्रमाणं यावत्तावत् । अस्मिन् गतवर्षगुणिते कल्पवर्षभक्ते गतमन्दोच्चभगणा लभ्यन्ते तत्प्रमाणं कालक । एतद्गुणितेषु कल्पवर्षेषु यावत्तावद्गुणितगतवर्षेभ्यः शोधितेषु सिद्धं भगणशेषम् =या १९७२९४८९६६ का ४३२००००००० इदं चक्रांशैः ३६० सगुण्य कल्पवर्षैविभज्य लब्धमष्टाद्रिभिः समं कृत्वा छेदगमञ्च विधाय नखनगरपवर्तितो जातो या ९८६४७४४८३ का २१६०००००० =रू ४६८०००००० समशोधनेन जातो या ९६४७४४८३ रू ४६८००००९० =का २१६००००००० पुन: पक्षौ युगाभ्रनागषट्पक्षनेत्रयुग्मैः २२२६८०४ स्वल्पान्तरत्वादपवर्तितो जाती या ४४३ रू २०१० = का ९७० अतः कुट्टकाल्लब्धं यावत्तावम्मानम् = ४८० ।
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/७७
दिखावट