पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारे कालमानाध्यायः मानचतुष्टयप्रयोजनमाह—वर्षायनर्त्तुयुगपूर्वंकमिति । वर्षं वत्सरः वसतोऽयने यस्मिन् स वत्सरः । यातीत्ययनं राशिषट्केन दक्षिणाशा- मुत्तराशां वेति । इयत्ति गच्छत्यसाधारणं लिङ्गमिति ऋतुः ॥ ३०-३१ ॥ २९ इदानीं मानोपसंह्लारश्लोकमाह । एवं पृथमानवदैव जैवपैत्रार्च सौरैन्दवसावनानि । ब्राह्मञ्च काले नवमं प्रमाणं ग्रहास्तु साध्या मनुजैः स्वमानात्'॥३२॥ वा० भा० एव कालस्य नव मानानि । तत्र ग्रहानयनं मनुष्यमानात् । यतस्ते मनुष्यैः साध्या: ॥ ३२ ॥ इति श्रीभास्करीये सिद्धान्तशिरोमणौ कालमानाध्यायः । वा० वा०—अथोपसंहति । एवं पृथकुमानवेति । यद्यपि दैवमासुरञ्च मानं दिवसभेदाद्भिद्यते तथाप्यहोरात्रैक्यादभेद इति नवैव मानानि स्वीकृतानि । काले कलनात्मके ब्राह्मं नवमं प्रमाणं परिमाणमित्यर्थः । एवं वर्षादिकालस्तत्तन्मानैर्नवधा भिद्यत इति । मनुष्योपयोगित्वाच्छास्त्रस्य यथोपयोग- स्तथैव ग्रहा मनुजैर्मनुष्यमानात्साध्याः । चकारोऽनुक्त समुच्चयार्थस्तेन ग्रहसमवेतानि कर्माणि वक्रास्तमनोदयक्रान्तिसाम्यच्छायायुतिग्रहणशृङ्गोन्नमनतिथ्यादीनि च साध्यानि ॥ ३२ ॥ इति श्रीकृष्णदैवज्ञात्मजगणकनृसिंहकृतौ कालमानाध्यायः । अथेदानीं ग्रहाणां मन्दोच्चानां चलोच्चानां ग्रहपातानाञ्च भगणान् श्लोकषट्केनाह | अर्कशुक्रबुधपर्यया विधेरह्नि कोटिगुणिता रदाब्धयः ४३२००००००० । एत एव शनिजीवभूभुवां कीर्त्तिताच खाभ्रखाभ्रगगनामरेन्द्रियक्ष्माधराद्रिविषया५७७५३३००००० गणकैश्चलोच्चजाः ॥ १ ॥ हिमयुतेः । युग्मयुग्मशरनागलोचनव्यालषण्नवयमाश्विनो२२९६८२८५२२ऽसृजः॥२॥ सिन्धुसिन्धुरनवाष्टगोऽङ्कषट्त्र्यङ्कसप्तशशिनो १७९३६९९८९८४ज्ञशीघ्रजाः । पञ्चपञ्चयुगपटूकलोचनद्वथब्धिषड्गुणमिता ३६४२२६४५५ गुरोर्मताः ॥ ३॥ १. अत्र श्रीपतिः । ‘‘पैतामहं दिब्यमथासुरश्च पैत्रं तथा मानुषमानमन्यत् । सौराहमांशवसावनानि जैवं तथेदं दश कीर्तितानि || सि० शे० १ अ० ४७ श्लो० । सौरचान्द्रमससावनमान: सार्क्षकग्रह गते रवबोधः । एभिरत्र मनुजव्यवहारो दृश्यते च पृथगेव चतुभिः ||" सि० शे० १ अ० ४८ श्लो० । नि ख पु० । ३ कालकख पु० । २.