पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३० सिद्धान्तशिरोमणौ ग्रहगणिते ७०२२३८९४९२ सितशीघ्रपर्ययाः । द्विनन्दवेदाङ्कगजाग्निलोचनद्विशून्यशैलाः भुजङ्गनन्दद्विनगाङ्गवाणषट्कृतेन्दवः १४६५६७२९८ सूर्यसुतस्य पर्ययाः ||४|| खाष्टाब्धयो ४८०ऽष्टाक्ष गजेषुदिग्विप- द्विपाब्धयो ४८८१०५८५८ द्व्यङ्कमा २९२ रदाग्नय: ३३२ | शरेष्विभा ८५५ स्त्र्यक्षरसाः ६५३ कुसागराः ४१ स्युः पूर्वगत्या तरणेमृदूच्चजाः ॥ ५ ॥ गजाष्टिभर्गत्रिरदाश्विनः २३२३१११६८ कुभृ- द्रसाश्विनः २६७ कुद्विशरा: ५२१ क्रमर्त्तवः ६३ | त्रिनन्दनागा ८९३ युगकुञ्ज रेषवो ५७४ निशाकराद्व्यस्तगपातपर्ययाः ॥ ६ ॥ वा. भा. - ग्रहाणां पूर्वगत्या गच्छतां कल्प एतावन्तो भगणा भवन्ति । तथा मन्दोच्चानां चलोच्चानाञ्च प्राग्गत्या एतावन्तः पर्यया भवन्ति । तथा पातानां पश्चिमगत्या एतावन्तो भवन्ति । अत्रोपपत्तिः । सा तु तत्तद्भाषाकुशलेन तत्तत्क्षेत्रसंस्थानज्ञेन श्रुतगोलेनैव श्रोतुं शक्यते नान्येन | ग्रहमन्दशीघ्रोच्चपाता: स्वस्वमार्गेषु गच्छन्त एतावत: पर्ययान् कल्पे कुर्वन्तीत्यात्रागम एव प्रमाणम् । स चागमो महता कालेन लेखकाध्यपकाध्येतृदोषैर्बहुधा जातस्तदा कतमस्य प्रामाण्यम् । अथ यद्येवमुच्यते गणितस्कन्ध उपपत्तिमानेवागमः प्रमाणम् | उपपत्त्या ये सिध्यन्ति भगणास्ते ग्राह्याः । तदपि न । यतोऽतिप्राज्ञेन पुरुषेणोपपत्तिर्ज्ञातुमेव शवयते । न तथा तेषां भगणानामियत्ता कुत्तु शवयते । पुरुषायुषात्पत्वात् । उपपत्तौ तु ग्रहः प्रत्यहं यन्त्रेण वेध्यः | भगणान्तं यावत् । एवं शनैश्चरस्य तावद्वर्षाणां त्रिशता भगणः पूर्यते । मन्दोच्चानां तु वर्षशतैरनेकैः । अतो नायमर्थः पुरुषसाध्य इति । अत एवातिप्राज्ञा गणका: साम्प्रतोपलब्ध्यनु- सारिणं प्रौढगणकस्वीकृतं कमप्यागममङ्गीकृत्य ग्रहगणित आत्मनो गणितगोलयोनिरतिशयं कौशलं दर्शयितुं तथाऽन्यैर्भ्रान्तिज्ञानेनान्यथोदितानथश्च निराकर्तुमन्यान् ग्रन्थान् रचयन्ति । ग्रहगणित इति कर्तव्यतायामस्माभिः कौशलं दर्शनीयं भवत्वागमो योऽपि कोऽप्ययमाशयस्तेषाम् । यथाऽत्र ग्रन्थे ब्रह्मगुप्तस्वीकृतागमोऽङ्गीकृत इति । तहि तिष्ठतु तावदुपपत्त्या भगणानामियत्तासा- धनम् । अथ यद्यपपत्तिरुच्यते तहि इतरेतराश्रयदोषशङ्कया वक्तुमशक्या । तथापि संक्षिप्तामुप- पत्ति वक्ष्यामः । इतरेतराश्रयदोषोऽत्र दोषाभासः । उपपत्तिभेदानां यौगपद्येन वक्तुमशक्यत्वात् । अथोच्यते । अर्कशुक्रबुधपर्यया विधेरित्यादि । यावन्ति कल्पे वर्षाणि तावन्त एव सूर्य- भगणा इत्युपपन्नम् । यतो भगणभोगकालो हि वर्षमुक्तम् । बुधशुक्रौ तु रवेरासन्नावेव कदा- तु चिदग्रतः कदाचित् पृष्ठतस्तस्यानुचराविव सदा व्रजन्तौ दृश्येते । अतस्तयोरपि रविभगणतुल्या भगणा' इत्युपपन्नम् । चलोच्चभगणोपपत्तिम वक्ष्यामः । १. अत्र कस्यचित् पद्यम् " शुक्रज्ञौ पृष्ठतश्चाग्रे सदाऽकीनुसरी यतः । ततोऽकंभगणैस्तुल्याः कल्पे स्य॒भंगणास्तयोः ॥”