सिद्धान्तशिरोमणौ ग्रहगणिते वर्षायनतु युगपूर्वकमत्र सौरान्- मासास्तथा च तिथयस्तुहिनांशुमानात् । कृच्छ्रस्तकचिकित्सतवासराद्यं तत् सावनाच्च घटिकादिकमार्चमानात् ॥ ३१ ॥ यत् वा० भा० - पूर्वश्लोके पूर्वाधं सुगमम् । मनुष्यमानन्तु विमिश्रं ज्ञेयम् । कुतः । यतो लोके चतुभिरेव मानैर्व्यवहारः प्रवर्तते । वर्षायनतुंयुगादिकं सौरमानात् प्रवर्तते लोके । मासास्ति- यश्च चान्द्रात् । व्रतोपवासचिकित्सितसूतकवासराद्यर्कसावनात् । घटिकादिकं नाक्षत्रादेव । एवं सौरचान्द्रसाव ननाक्षत्रमानैश्चतुभिरेभिमिश्रित मनुष्यमानम् ॥ ३०-३१ ॥ वा० वा०—अथ बार्हस्पत्यमनुष्यमाने चाह बृहस्पतेरिति । कल्पादेर्यावन्तो राशयो गुरुभुक्तास्ते षष्टितष्टा विजयाद्या गतसंवत्सराः भवन्ति । यतः कल्पादौ विजयः दाक्षिणात्यास्तु मनुजमानात् संवत्सर मिच्छन्ति । तथा च रोमशसिद्धान्ते - २८ ‘विजयाद्यास्तथाऽर्काब्दाः प्रभवाद्याः स्मृता बुधैः' इति । किं तन्मनुजमानं विमिश्रमिति | सौर चान्द्र-सावन-नाक्षत्राणां मध्ये द्वयोस्त्र- याणां सर्वेषां वा मिश्रणं तन्मिश्रमानम् । यस्माच्चतुर्भिर्मानैर्व्यवहारो बहु प्रवर्त्तते । चैत्रशुक्लप्रतिपदि रव्युदयान्मनुजमानप्रवृत्ति वदन्ति । अत्र विशेषो मुहूर्तकल्पद्रुमे । "चेत् स्पष्टया वाऽप्यथ मध्यगत्या राश्यन्तरं यत्र च चान्द्रवर्षे: । गुरुनं यायादधिवत्सरोऽधिमासेन तुल्य: स शुभेषु वज्यंः ।।” यशोधरतन्त्रे । "एकस्मिन् रविवर्षे गौरववर्षंद्वयावसानं चेत् । त्र्यब्दस्पृगेनमेवं विलुप्तसंवत्सरं प्राहुः ॥” ज्योतिर्विदामरणे । "गुरुसङ्क्रमयुग्मवत्समा गदिता सा ननु लुप्तसंज्ञिता । विबुधै रहिता शुभे तु याऽधिसमा गीष्पतिसङ्क्रमोज्झिता ॥” १. अत्र श्रीपतिः । "वर्षाणि सौरात् प्रवदन्ति चान्द्रान्मासांस्तिथी: सावनतो दिनानि । सौरैन्दवाभ्यां तु विना न तत् स्यान्नाक्षत्रमानाघटिकादिकालः । ( सि. शे. १ अ. ४९ इलो० ) युगायनर्तुप्रभृतीनि सौरान्मानावराज्योरपि वृद्धिहानी । पर्वाधिमासोनदिनानि चान्द्रात् तथा तिथेरधंमपि प्रदिष्टम् ॥ ( सि. शे. १ अ. ५० श्लो० ) प्रायश्चित्तं सूतकाद्यं चिकित्सायज्ञाद्येवं कर्म वारादिकञ्च । शास्त्रे त्वस्मिन् खेचराणाव चारा विज्ञातव्याः सावनाद्भास्करीयात् ॥ " ( सि. शे. १ अ. ५१ इलो० )
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/७३
दिखावट