पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारे कालमानाध्यायः २७ म्लेच्छास्ते व्यापादिता यस्मिन् काले विक्रमार्केण स कालो लोके शकेन्द्र काल इत्युच्यते' इति भट्टोत्पलोक्तेः । य एव विक्रमस्यान्तः स एव शालिवाहनादिरित्युच्चावचजन- प्रसिद्धम् । अत्राङ्कानां वामतो गतिः । एकस्थानाद्द शकस्थानादिविन्यासस्य वामक्रमेणै- वाद्यैः सङ्केतितत्वात् । एक एव द्वयादिनवावसानावृत्तिभिर्द्वित्त्वादिसङ्ख्यां लभते । एवं नवैवाङ्काः सङ्केतिताः । पुनरेक इव दशगुणोत्तरो दशकशतसहस्रादिसङ्ख्यां लभते । यत्र नवावसानावृत्त एको विन्यस्यते तदेकस्थानम् । यत्र नवान्ताङ्कावृत्त एव दशगुणोत्तरो विन्यस्यते तद्दशकादिस्थानमित्याहुः । स्थानानन्त्यात् सङ्ख्याया आन- न्त्यम् । स्थानानां योऽवश्यं मन्तव्य उत्तरावधिस्तस्य परार्द्ध इति संज्ञा कृता । आचार्येण परार्द्धस्याष्टादश स्थानान्युक्तानि | क्वचिच्छात्रान्तरेऽधिकान्युक्तानि | शून्यं नामाभाव- स्तदपि सङ्ख्यान्तर्गतमेव सङ्ख्या द्योतकत्वात् । एक एव सहस्रसङ्ख्यां कथं द्योतयेद्यदि एकदशशतस्थानेष्वङ्कानामभावाच्छून्यनिवेशो न स्यात् । यद्वच्छून्यनिवेशेन लक्षादिसङ्ख्याव- बोधस्तद्वत्परार्द्धादिस्थानामभावे शून्यनिवेशनेनापि स्यात् । युक्तश्च वामक्रमादक्षिण इति चेत् किमत्र वक्तव्यम् । उक्तमेवात्र बीजगणितं व्याख्यातवद्भिः कृष्णदैवज्ञ- रुत्तरावधेरभावात् 'परिच्छिन्नसङ्ख्यासु तत्सत्वेऽपि तस्यानियतत्वात् प्रथमावधेस्तु नियतत्वादिति । उत्तरावधेः प्रदक्षिणक्रमेणैव द्वितीयादिस्थानानां संज्ञास्त्विति तत्रापीदमेवोत्तरम्। अर्ध्याहतस्थानस्थस्य पङ्क्तौ पूर्वनिवेशस्तदधः स्थितस्थानस्थानां सव्यक्रमेण स्थापनमुचितं, लोकेषु तथा दृश्यते तत्त्वेकस्थानाद्वामक्रमेण दशकादिस्थान- विन्यासेनोपपद्यते । अथवा परमाण्वाद्यधिकृत्य द्वयणुकादिसंज्ञाः क्रियन्ते तद्वदेकस्थान- मधिकृत्य दशकादिस्थानसंज्ञाकरणे न कश्चिद्दोषः । एकादिस्थानसाध्यत्वाद्दशकस्थाना- दीनामुत्तरोत्तरसङ्ख्यायां पूर्वपूर्वसङ्ख्यायाः सत्वात् । तस्मादेकमब्जं नवार्बुदानि सप्त- कोट्यः प्रयुतद्वयं लक्षनवकं चत्वार्ययुतानि सहस्रसप्तकं शतमेकं सप्त दशकाः नव चेति गताः शकादौ । ततः शकवर्षाण्येतेषु योज्यानि ॥ २८-२९ ॥ नन्वेकादिस्थानस्थितानामङ्कानामभावे इदानीं बार्हस्पत्यं मानुषमानञ्चाह । बृहस्पतेर्मध्यमराशिभोगात् संवत्सरं सांहितिका वदन्ति । ज्ञेयं विमिश्रन्तु मनुष्यमानं १. द्योते ख पु० । २. युक्ता ख पु० । ५. अत्र क्षेपकं पद्यम् । मानैश्चतुर्भिर्व्यवहारवृत्तेः ॥ ३० ॥ ३. तविद्भिः ख पु० । ४. परिक्षिण ख पु० । "कल्पादितो मध्यमजीवभुक्ता ये राशयः षष्टिहृतावशेषाः । संवत्सरास्ते विजयाश्विनाद्या इतीज्यमानं किल संहितोक्तम् ॥ तथा च श्रीपतिः । "कल्पादि भुक्ता गुरुराशयो ये संवत्सराः स्युविजयादयस्ते । बभाषिरे सांहितिका हि पूर्वे वर्षाणि तस्याविनपूर्वकाणि ॥” ( सि. शे. १ अ. ४३ श्लो० )