सामग्री पर जाएँ

पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणौ ग्रहगणिते युगमहीधरवेदवर्षेषु' शतगुणि तेषु गतिप्रारभ्भाभिधानात् कल्पभगणादीनामा - नर्थक्यम् । तस्मात् कल्पादावेव ग्रहगतिप्रारभ्भः समुचित इति । यथेच्छाकाले ग्रहासत्वं दोषस्तथा प्रमाणकालेऽपि ग्रहासत्वं दोष इति सामान्यत उक्तम् । तेष्वसत्सु ये तच्चारचिन्तां कुर्वन्ते तेभ्यो महद्भ्यो नम इति । तथा चाह श्रीपतिः- विधिवासरादौ सृष्टिर्लयस्तद्दिवसावसाने । ज्योतिर्ग्रहाणां यस्मादतोऽस्मिन् गणिते ग्रहाणां योग्यो मते नः खलु कल्प एव ॥ इति । २६ वस्तुतस्तु युगकुदिनादिप्रमाणं युगभगणादिफलमिच्छेष्टाहर्गणाद्येव । तत्र सावयवेन गुणने भजने च शिष्यक्लेशो मा भूदिति भगवता पङ्कजवनविकासकेन सूर्येण मन्दशीघ्रोच्चपातभगणाद्यं सहस्रेण सवर्णयित्वा पठितमिति ग्रहासत्वदोषाशङ्काऽपि नास्ति । तस्मान्महाकल्पाद्ये ग्रहाननं कुर्वते तेषामेवेदं दूषणमित्यलम् । ब्रह्ममान- कथनं सङ्कल्पाद्युपयोगितया प्राजापत्यमानवत् । शास्त्रान्तरे प्राजापत्यमानमभिहितम् । 'मन्वन्तरव्यवस्था च प्राजापत्यमुदाहृतम्' इति ॥ २७ ॥ ६ इदानीं वर्तमानदिनगतमाह । याताः षण्मनवो युगानि भमितान्यन्ययुगाङ्घ्रित्रयं नन्दाद्रीन्दुगुणास्तथा शकनृपस्यान्ते कलेर्वत्सराः । गोद्रीन्द्वद्रिकृताङ्कदस्रनगगोचन्द्राः १९७२९४७१७९ शकाब्दान्विताः । सर्वे सङ्कलिताः पितामहदिने स्युर्वर्त्तमाने गताः ॥ २८ ॥ स्वायम्भुवो मनुरभूत् प्रथमस्ततोऽमी स्वारोचिषोत्तमजतामसरैवताख्याः । षष्ठस्तु चाक्षुष इति प्रथितः पृथिव्यां वैवस्वतस्तदनु सम्प्रति सप्तमोऽयम्॰।।२९।। वा० भा० -- इलोकद्वयं स्पष्टार्थम् । इति ब्रह्ममानम् ॥ २८-२९ ॥ वा० वा० – वर्त्तमानद्ययातं मनूनाञ्च संज्ञां वृत्तद्वयेनाह याताः षण्मनव इति । शकनृपस्यान्ते । शकाश्च ते नराश्च तान्पातीति शकनृपो विक्रमादित्यः । यथा मृगप्राणहरे सिंहे मृगपतिप्रयोगस्तथा शकनृपप्रयोगो विक्रमादित्ये । शकनामानो १. धरद ख पु० । ३. कुर्वते ख पु० । ५. नयने ख पु० । अत्र श्रीपतिः । ७. २. ग्रंथेच्छा ख पु० । ४. सि० शे० १ अ० २१ श्लो० । ६. सू० सि० १४ अ० २१ श्लो० । “स्वायम्भुवाख्यो मनुराद्य आसीत् स्वारोचिषश्चोत्तमतामसाख्यौ । जातौ ततो रैवतचाक्षुषौ च वैवस्वतः सम्प्रति सप्तमोऽयम् ॥ ( सि. शे. १ अ. २४ श्लो० ) अन्येषां नामानि पुराणवचनाज्ज्ञेयानि । तथा च तद्वचनम् । “सार्वणिर्दक्ष सार्वणिर्ब्रह्मसावणिकस्ततः । धर्मसार्वाणको रुद्रपुत्रो रौच्यश्य भौत्यकः ॥”