पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारे कालमानाध्यायः स्वसन्ध्यकातदंशकैर्निजार्कभागसंमितैः । युताश्च तद्युतौ युगं रदाब्धयोऽयुताहताः ॥ २२ । मनुः क्षमानगैयु गैर्युगेन्दुभिश्च तैर्भवेत् । दिनं सरोजजन्मनो निशा च तत्प्रमाणिका || २३ ॥ सन्धयः स्युर्मनूनां कृताब्दैः समा आदिमध्यावसानेषु तैमिश्रितैः । स्याद्युगानां सहस्रं दिनं वेधसः सोऽपि कल्पो धुरात्रन्तु कल्पद्वयम् ||२४|| शतायुः शतानन्द एवं प्रदिष्टस्तदायुर्महाकल्प इत्युक्तमाद्यैः । यतोऽनादिमानेष कालस्ततोऽहं न वेद्भ्यत्र पद्मोद्भवा ये गतास्तान् ॥२५॥ वा० भा० – खखा भ्रदन्तसागरैरिति । रविवर्षाणां लक्षचतुष्टयेन द्वात्रिंशत्सहस्राधिकेन चतुर्गुणेन कृतं नाम प्रथमो युगचरण: १७२८०००। त्रिगुणेन त्रेतासंज्ञो द्वितीयो युगचरण: १२९६००० । द्विगुणेन द्वापराख्यस्तृतीयः ८६४००० एकगुणेन कलिश्चतुर्थः ४३२००० । किंविशिष्टा एते युगचरणाः । स्वसन्ध्यकातदंशकैनिजार्क भागसं मितैर्युताश्च । युगचरणप्रमाणस्य यो द्वादशांशस्तत्प्रमाणां तस्य चरणस्य सन्ध्या । सा चरणादौ भवति । तावाँश्च सन्ध्यांशः । सचरणस्यान्ते । एवं स्वसन्ध्यासन्ध्यांशैः सह एते युगचरणाः कथिता इत्यर्थः । कृतादौ सन्ध्यावर्षाणि १४४००० | कृतान्ते सन्ध्यांश: १४४००० । त्रेतादौ सम्ध्या १०८००० । त्रेतान्ते सन्ध्यांश: १०८००० । द्वापरादौ सन्ध्या ७२००० । द्वापरान्ते सन्ध्यांशः ७२००० । कल्यादौ सन्ध्या ३६००० | कल्यन्ते सन्ध्यांशः ३६००० । तद्युतौ युगमिति । तेषां चतुर्णां चरणप्रमाणानां युतौ युगप्रमाणम् । तच्च रदाब्धयोऽयुताहताः ४३२०००० | मनुः क्षमान - गैर्युगैरिति । तैर्युगै रेकसप्तत्या मितैरेको मनुः । तैर्मनुभिर्युगेन्दुभिश्चतुर्दशभिदिनं सरोजजन्मनो निशा च तत्प्रमाणिका | ब्रह्मणो दिनतुल्या रात्रिश्च भवति । प्रमाणिकाशब्देन छन्दोऽपि सूचितम् | अहो एकसप्ततियुगो मनुरुक्तः । ब्रह्मदिने चतुर्दश मनवः एकसप्ततिर्यावच्चतुर्दशभिर्गुण्यते तावत् षडूनं सहस्रं भवति । स्मृतिपुराणदौ तु । २३ "चतुर्युगसहस्रेण ब्रह्मणो दिनमुच्यते । तत् कथमिदमुच्यत इत्याशङ्कां परिहरन् आह । सन्धयः स्युर्मनूनां कृताब्दैः समा आदिमध्यावसानेष्विति । आदिश्च मध्यानि चावसानञ्च आदिमध्यावसानानि । एवं तानि पञ्चदश | तेष्वादिमध्यावसानेषु मनूनां सन्धयः स्युः । ते च कृताब्दसमकालाः ।' कृताब्दा यावत् पञ्चदशभिर्गुण्यन्ते तावद्यगषट्काबदतुल्या भवन्ति । अतस्तै मिश्रितैर्युगसहस्रं ब्रह्मणो दिनमुक्यते । तत् कथमिदमुच्यत इत्यनु पपन्नमित्युपपद्यते । यद्ब्रह्म दिवसोऽपि कल्पसंज्ञः । एवं निशा च तत्प्रमा- णिकेति । धुरात्रं तु कल्पद्वयमिति । अस्माद्दिनाद्यत् पूर्वपरिभाषया वर्षशतं तद् ब्रह्मण आयुः । यत् तस्यायुः स महाकल्प इत्युच्यते । ततोऽन्यो ब्रह्मा तदन्तेऽन्य इति पुराणादौ कथ्यते श्रूयते च । विष्णुपुराणे