पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ सिद्धान्तसिरोमणौ ग्रहगणिते “निजेनैव तु मानेन कायुर्वर्षशतं स्मृतम् । धंतु परार्धमभिधीयते ॥" तत् कियन्तस्ते गता इत्याशङ्कायामाह | यतोऽनादिमानित्यादि । यतः कालोऽना- दिमान् । अतो ये गतास्तान्न वेद्मि ॥ २१-२५ ॥ वा० वा० - इदानीं 'ब्राह्ममानमाह खखाभ्रदन्तसागरैरिति ॥ २१ - २४|| एवं ब्रह्मण आयुर्दायमाह शतायुरिति अद्यावधि कियन्तः पद्मोद्भवा गता इति मन्दप्रश्नस्योत्तरमाह । यतोऽनादिमानेष इति । अनन्ता गता इत्युत्तरम् ॥ २५ ॥ इदानीमन्यदाह । तथा वर्त्तमानस्य कस्यायुषोऽधं गतं सार्धवर्षाष्टकं केचिदूचुः । भवत्वागमः कोऽपि नास्योपयोगो ग्रहा वर्त्तमानघुयातात् प्रसाध्याः ॥२६॥ वा० भा० - तथा वर्तमानस्य ब्रह्मण आयुःकालस्य कि गतमिति न वेद्मि । तत्र केचिदाचार्या आयुषोऽधं गतं केचित् सार्धवर्षाष्टकं गतमित्यूचुः । तत्रागमः प्रमाणम् । इहागम- द्व विध्ये कः प्रमाणमित्यत्रास्माकं नाग्रहः । यतोऽस्य गतैर्वषैदिर्नरपि प्रयोजनाभावः । ग्रहास्तु वर्तमानस्य दिवसस्य गतात् साध्याः ॥ २६ ॥ वा० वा० – अन्यदपि न वेद्मि आगमद्वैविध्यादित्याह तथा वर्त्तमादस्येति । ननु गतवर्षाज्ञाने ग्रहसाधनं कथं स्यादित्याशङ्कायां सयुक्तिकमुत्तरमाह भवत्वागम् इति ॥ २६ ॥ इदानीं तत्कारणमाह । यतः सृष्टिरेषां दिनादौ दिनान्ते लयस्तेषु सत्स्वेव तच्चारचिन्ता । अतो युज्यते कुर्वते तां पुनयँऽप्यसत्स्वेषु तेभ्यो महद्भ्यो नमोऽस्तु ||२७|| -यत एषां ग्रहाणां दिनादौ सृष्टिदिनान्ते लयः । यदि महाकल्पगताद्ग्रहाः साध्यन्ते तहि यावत्योऽस्य विभावर्यो गतास्तासु ग्रहाभाव एव । अतो विद्यमानेष्वेव ग्रहेषु वा० भा० -- १. ब्रह्ममा कपु० । २. "आयुषोऽर्धमितं तस्य' – इति सूर्यसिद्धान्तोक्तिः । 'कजन्मनोऽष्टौ सदला: समा ययुः " - चेति वटेश्वरसि० १ अ० १० श्लो० । ३. अत्र भगवदुक्तिः । अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे । रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥” ब्रह्मगुप्तः । “ग्रहनक्षत्रोत्पत्तिब्रह्मदिनादौ दिनक्षये प्रलयः । यस्मात् कल्पस्तस्माद्भग्रहगणिते कल्पयाताब्दाः || ' श्रीपतिः " “ज्योतिर्ग्रहाणां विधिवासरादौ सृष्टिलंयस्तदिवसावसाने । यस्मादतोऽस्मिन् गणिते ग्रहाणां योग्यो मते नः खलु कल्प एव | "} ( सि० शे० १ अ० २१ श्लो० ) ।