पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ सिद्धान्तसिरोमणौ ग्रहगणिते पलक्षणार्थं, दैत्यपदं वडवानलस्थोपलक्षकम् । पातालतलाद्यवस्थितानां एतादृश दिनाभावात् । एतत् कारणं गोले वक्ष्यते । 'रवीन्द्वोर्युतेः संयुतिर्यावदन्येति । रविचन्द्रबिम्बकेन्द्रयुतेर्यावदन्या युतिः स चान्द्रो मास इति दर्शावधिरिति यावत् । 'मास' परिमाणे इत्यस्माद्धातोनिष्पन्नोऽयं मासशब्दः । मस्येते' परि॰मीयेते यावता कालेन चन्द्रवृद्धिक्षयौ स चान्द्रो मासः । यद्वा चन्द्रवृद्धिक्षयाभ्यां मस्यत इति मासः । उक्तञ्च- ‘मस्यन्ते परिमीयन्ते स्वकलावृद्धिहानितः । मास एते स्मृता मासास्त्रिशत्तिथिसमन्विता' ॥ इति ॥ ★ एतेन मासाभिधा चान्द्रा एव मुख्या: । सौरादिषु गुणवशादेकस्मिन् मासे चान्द्रे रविचन्द्रातरं भगणांशाः । एकस्मिस्तिथावन्तरं द्वादशभागाः । चान्द्रमध्ये सावन- घटोमानमनुपातेन । यदि गत्यन्तरकलाभिः षष्टिवटिकास्तदा द्वादशभागकलाभिः किमिति, मध्यगत्या चान्द्रे सावनघटयः । ५९||४ चान्द्रमास एव पित्र्यमहोरात्रम् । पितृशब्देन विधुपृष्ठस्था उच्यन्ते ||१९|| अधुना सावननाक्षत्र दिनप्रमाणमाह इनोदयद्वयान्तरमिति | दिनशब्देनाहोरात्र- मुच्यते । दिनशब्द: सावने मुख्योऽन्यत्र गौणः | भानां भ्रमो यावता कालेन सम्पद्यते तद्भदिनम् । नाक्षत्रमध्ये सावनज्ञानमनुपातेन । रविगतियुक्तचक्रकलाभिः षष्टिघटिकास्तदा केवलाभिश्चक्रकलाभिः किमिति, जातम् । ५९ | ५२ । ( ५० ? ) चन्द्रेण याता कालेन नक्षत्रं भुज्यते तद्भदिनम् | तज्ज्ञानं त्रैराशिकेन । यदि चन्द्रगत्या ॥७९०॥३५॥ षष्टिघटिका असावना: लभ्यन्ते तदाऽष्टशतकलाभिः किमिति जातम् ||६०॥४७॥ (४२ ?) एवं 'सप्तविंशतिदिनैर्मास इति । इदं नाक्षत्रं मानं प्रवर्षणमेघगर्भपरिज्ञाने उपयुज्यत इति नादर: ।। अत्राचार्येण भभ्रमशब्देन नाक्षत्र ७ सावनमेव' घटिकादि- ज्ञानार्थम् ||२०|| इदानीं ब्राह्ममानमाह । खखाभ्रदन्तसागरैर्युगाग्नियुग्मभृगुणैः । क्रमेण सूर्यवत्सरैः कृतादयो युगायः ॥ २१ ॥ १. तहश ख पु० । ३ मास्येते ख मस्यं ते ग पु० च । ५. चांद्र कपु० । ७. नाक्षत्रे ख पु० । २. परिमास क ख ग ०पु । ४. परिभीषेते ख परिभीयंते गपु० च । ६. प्रमो ख पु० । ८. नमवादि क ख ग पु० ।