पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारे कालमानाध्यायः २१ वा० वा०- • पूर्वं वर्षादिपरिभाषोक्ता । अधुना देववर्षादिसौरादिभेदेन ' नवधा भिद्यत इति मानान्याह रवेश्चक्रभोग इति । रवे: द्वादश राश्यात्मकचक्रस्य पूर्वगत्या यावता कालेन भोगः स कालो रविवर्ष- मित्युक्तम् । अंशभोगो दिनप्रमाणम् । रविदिवसे सावनघटीप्रमाणज्ञानमनुपातेन । गतिक- लाभिः षष्टिघटिका: सावनाः लभ्यन्ते तदा षष्टिकलाभिः किमिति, लब्धं सौरदिवसे सावनाघटिकामानं ६०/५२ ॥ मध्यगत्या मध्यगतिमानं 'महीमितादहर्गणात् फलानि यानि तत्कलाः' इत्या- चार्यो वक्ष्यति । अंशस्य कलाकरणमिच्छायाः प्रमाणसजातीयकरणायानुपातलक्षणं पाट्यामुक्तम् । २ प्रमाणमिच्छा च समानजाती आद्यन्तयोः स्तः फलमन्यजातिः । मध्ये तदिच्छाहतमाद्यहृत्स्यादिछाफलं व्यस्तविधिविलोमे । इति । गुणस्त्वा- वृत्तिलक्षणः । 'आवतंको गुणः प्रोक्त आवर्त्यो गुण्य उच्यते' गुण्यसंख्यायाः गुणकसंख्यातुल्या- वर्त्तने यावती सङ्ख्या सा गुणनफलसंज्ञां 3 लभते । भाज्यसङ्ख्याया भाजकसङ्ख्या- मितोंऽशो भाग इति । तत्सङ्ख्याभागहारफलमित्युच्यते । गतेः कलाद्यवयवान् भागप्रभाग- भागानुबन्ध भागापवाहजातिभिर्यथासंभवं सवर्णयित्वा भिन्ना भिन्नाभागहारप्रकारेण षष्टिकलागुणितषष्टिघटीभ्यो गत्या भागो ग्राह्यः । तत्सौरे सावनमानं भवति । धुरात्रञ्च देवासुराणां तदेवेति । तदेव सौरवर्षं देवासुराणामहोरात्रं प्रदिष्टम् । दिनेशदर्शनयोग्यः कालविशेषो दिनमदर्शनं रात्रिरिति । एकप्रदेशस्थद्रष्टुः सूर्योदय- द्वयदर्शनान्तरालकालोऽहोरात्रम् । अन्यथा प्रदेशद्वयदृष्टसूर्योदयद्वयदर्शनान्तरालकालस्य भिन्नत्वादहोरात्रभेद: स्यात् । "यावद्दिनेशदर्शनं तावद्दिनमित्यत्रापि सौम्यायनं दिनं दक्षिणायनं रात्रिरिति दोषः प्रसज्येत । संकल्पादेवाप्तकार्यसिद्धयः सिद्धा: स्वच्छन्दचा- रिणः सौम्यायनप्रवृत्तेः सौरमासत्रयं यावद् वड़वानलप्रदेशमाश्रयन्ते । ततो मेषादिराशि- त्रयार्कभोगं यावन्मेरु संश्रयन्ते । ततः पुनः कर्कादित्रयेण वडवानलं पुनस्तुलादित्रयेण मेरुस्थितिसुखमनुभवन्ति । मृगादिभचक्रार्द्धार्कंभोगं यावद् दिनेशस्य दृष्टत्वात्सौम्यायनं दिनमापद्येत । न चैतादृशदिनप्रमाणं 'शास्त्रेण प्रतिपाद्यते । प्रदेशविशेषमधिकृत्यैव दिनप्रमाणस्योक्तत्वात् । तस्मादेकप्रदेशस्थद्रष्टुर्यावद्दिनेशदर्शनयोग्यं कालविशेषः तावद्दिनमिति युक्तम् । अभ्रादिव्यवधानेनादर्शननिवारणाय योग्येति पदम् । यद्वा स्वक्षितिजोपरि यावद्रविबिम्बसञ्चरणं तावद्दिनम् । स्वक्षितिजाधो यावद्रविबिम्बसञ्चा- रस्तावती रात्रिः । यावत्स्वक्षितिज एव रविबिम्बसञ्चारणं तावती सन्ध्येति लक्षणं युक्तम् । एतद्द्वीपवत्यंन्याप्रविष्टनिरस्तसमस्तरविरश्मिजाल: कालविशेषो रात्रिरिति लक्षणेऽत्यन्तं गौरवम् । यद्देवानां दिनं तदसुराणां रात्रिरिति भाष्ये देवपदं मेरुस्थो- १. भदे नवधा ख पु० ४. भागभागानु २ लीला० ऋ० १ श्लो० । ३. गुणनफलभ्यते ख पु० । ५. दिनेदशं ख पु० । ६. शास्त्रंण ख पु० । ७. तदेश ख पु० । "ख पु०