पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तसिरोमणौ ग्रहगणिते तत्रिंशता भवेद्राशिर्भगणो द्वादशैव ते । इति क्षेत्रपरिभाषोक्ता ॥ १६-१८ ।। इदानीमनयैव कालविभागपरिभाषया सौरादीनि तन्मानान्याह । रवेशक्रभोगोऽर्कवर्ष प्रदिष्टं धुरात्र च देवासुराणां तदेव । रवीन्द्वोर्युतेः संयुतिर्यावदन्या विधोर्मास एतच्च पैत्र इनोदयद्वयान्तरं तदर्कसावनं दिनम् । द्युरात्रम् ॥१९॥ तदेव मेदिनीदिनं भवासरस्तु भभ्रमः ॥२०॥ वा० भा० रविर्यावता कालेन पूर्वगत्या मेषादिभचक्रं भ्रमति तावत्प्रमाणं रविवर्षं प्रविष्टम् । तस्य द्वादशभागो रविमासः । मासस्य त्रिंशदंशोऽकं विनम् | दिनषष्टघंशोऽकंघटिका । तत्वष्ट्यंशोऽकंविघटिकेति पूर्वपरिभाषया सर्वत्र वेदितव्यम् । इत्यर्कमानम् । अथ दैवमानम् | धुरात्रं च देवासुराणां तदेवेति । यदफॅवर्षं तदेव देवानां चेत्यानां च रात्रमहोरात्रम् | एकमेव तेषामहोरात्रम् | किन्तु यव्वेवानां दिनं सा दैत्यानां रजनी । तथा च गोले वक्ष्यति । अस्मादहोरात्रान्मासवर्षादिकल्पना तयैव परिभाषया । एवं ठेवानां वर्ष रविवर्षशतत्रयेण षष्ट्यधिकेन भवति । इति देवमानम् । अय चान्द्रमानम् । रवीन्द्रोयुंते: संयुतिर्याववन्या विथोर्मास इति । रवीन्द्रोयुंतिरमा- वास्यान्ते भवति । तस्या युतेरन्थ्युतिपर्यन्तं यावान् कालस्तावान् विधुमास: । एवं योऽत्रामावा- स्यान्तो मासः स विधुमास इत्युक्तं भवति । तस्मान्मासात् पूर्वपरिभाषया वर्षादिकल्पनेति चान्द्रमानम् । अथ पैत्रम् । एतच्च पेत्रं चुरात्रमिति | यो विधुमासस्तदेव पितृणामहोरात्रम् । अतः पूर्ववन्मासवर्षादिकल्पना । इति पैत्रम् | अथ सावनम् । इनोवयद्वयान्तरमिति | अर्कोदययोरन्तरं यत् तदर्कसायनं दिनं तदेव कुविनसंज्ञं ज्ञेयम् । अतोऽपि पूर्ववन्मासवर्षादिकल्पना । अत्राकंग्रहणमुपलक्षणं तेनान्येषामपि ग्रहाणां तबुवयद्वयान्तरं तत्सावनमिति | इति सावनम् । अथ नाक्षत्रमानम् | भवासरस्तु भन्भ्रम इति । भभ्रमो नक्षत्रसावनमित्यर्थः । इति नाक्षत्रम् ॥१९-२० ॥ २. उक्तञ्च सिद्धान्तशेखरे प्राणस्याद्दशभिरिहाक्षरैः द्विमात्रै : षट्प्राणैर्भवति विनाडिका हि सार्क्षी । षष्टयासां भवति घटी तदीयषष्टयाऽहोरात्रं निगदितमेतदाङ्क्षमेव ॥ १२ ॥ काष्ठा स्मृताऽष्टादशभिनिमेष: कला च काष्ठा दशकत्रयेग । त्रिशस्कलाः स्याद्घटिका घटीभ्यां क्षणः क्षणास्त्रिशदनिशं वा ॥ १३ ॥ अक्षणोनिमेष: कथितो निमेषस्त्रशद्विभागोऽस्य च तत्परा स्यात् । शतांशकस्तस्य त्रुटिनिरुक्ता सर्वज्ञगम्या यदि हन्त सा स्यात्' ( १ अ० १२-१४ दलो० ) |