पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारे कालमानाध्यायः १९ इति छन्दोलक्षणे प्रतिपादितम् । यदक्षरं सानुस्वारं विसर्गान्तं दीर्घं यस्याक्षरस्य परत: संयोगस्तल्लध्वपि गुरुसंज्ञं ज्ञेयम् । गुवंक्षरस्योच्चार्यमाणस्य यात्रान् कालस्तद्दशकेनकोऽसुः प्राणः । प्रशस्तेन्द्रिय पुरुषस्य श्वासोच्छ्वासान्तवर्ती काल इत्यर्थ: । षड्भि: प्राणैरेकं पानीपपलम् | पलानां षष्ट्या घटी। घटीनां षष्ट्य दिनम् | त्रिशद्दिनेरेको मासः | मासद्व दशभिर्वर्षमिति कालस्य विभागो दर्शितः । अर्थतत्प्रसङ्गेन क्षेत्रविभागोऽपि कथितः क्षेत्रे समाद्येन समा विभागा इति क्षेत्रे कक्षायां समाद्येन वर्षाद्येन समस्तुल्या: क्षेत्रविभागा ज्ञेयाः । ते के । चक्रराश्यंशकला. विलिप्ताः । यथंकस्य वर्षस्य मास दिनादयो विभागा एवं भगणस्य राश्यंशादयः ।। १६-१८॥ वा० वा० – इदानीं कालमानानां विभागकल्पनां श्लोकत्रयेणाह योऽक्ष्णोरिति । न केवलं सूर्यादय एव कालव्यक्तिव्यञ्जकाः किन्तु निमेषादयोऽपीत्युच्यते । अत्र निमेषस्य सहस्रत्रयमितोंऽशस्त्रुटिरित्युक्तम् । शास्त्रान्तरे निमेषद्वयं त्रुटिरभिहिता । अत्र क्षणपदेन मुहूर्त्त उक्त: अन्यत्र निमेषाष्टकं क्षण इति । अत्र द्विसप्ततिसहस्राधिकनवलक्ष ९७२००० निमेषैरहोरात्रमभिहितम् । क्वचित्षष्टिसहस्राधिकैकविशतिलक्षं २१६०००० निमेषैरहोरात्रमुक्तम् । अन्यत्रापि द्वात्रिंशत्सहस्राधिकाष्टपञ्चाशल्लक्षनिमेषै ५८३२००० रहोरात्रमिति । तथा च गार्ग्यः । "अक्षिक्षेपपरिक्षेपो निमेष: परिकीर्तितः । द्वौ निमेषौ त्रुटिर्नाम द्वे त्रुटी तु लवः स्मृतः ॥ द्वौ लवौ क्षण इत्युक्तः काष्ठा प्रोक्ता दश क्षणाः । त्रिशत्काष्ठा कला प्रोक्ता कलात्रिंशन्मुहूर्त्तकः ॥ ते तु त्रिंशदहोरात्र इत्याह भगवान् हरः । इति ॥ तथा च मनुस्मृतौ शाकल्ये च परिभाषान्तरमुक्तम् । निमेषतारतम्याददोषः । मनुष्यलक्ष्यं परिभाषान्तरमुक्तं गुर्वक्षरैः खेन्दुमितैरिति पूर्वपरिभाषया मनुष्यदृग्विष - यातीतत्वान्निमेषपरिमाणस्याव्यवस्थितिस्वीकारदर्शनाच्च । क्षेत्रे समाद्येनेति । ४ विकलानां कला षष्ट्या तत्षष्ट्या भाग उच्यते । ४. . १ पक्ष्म ख ग पु० । ३. कालस्य परिभाषान्तरं वटेश्वरसिद्धान्ते यथा- २. परिज्ञेयो इ० मु० पा० पु० । 'कमलदलनतुल्यः काल उक्तस्त्रुटिस्तच्छतमिह लवसंज्ञस्तच्छतं स्यान्निमेषः । सदलजलधिभिस्तैगु विहैवाक्षरं तत्कृतपरिमितकाष्ठातच्छरार्धेन वासुः (मध्यमा० ७ श्लो०) ॥ अन्यच्च वृद्धवासिष्ठसिद्धान्ते 'दशगुवंक्षरोच्चारकाल: प्राणोऽभिधीयते । तत्षट्कैश्च पलं षष्ट्या नाडीषष्ट्याक्षंजं दिनम् ( १ अ० ४ श्लो० ) । अपि च सोमसिद्धान्ते – 'दशगुवँक्षर : प्राणः षड्भि: प्रार्णविनाडिका | तत्षष्ट्या नाडिका प्रोक्ता नाडी षष्ट्या दिवानिशम्' । सू० सि० १ अ० २८ श्लो० ।