१८ सिद्धान्तशिरोमणौ ग्रहगणिते कलिसंज्ञे युगचरणे पाराशर्यं मतं प्रशस्तमत, इति । नात्र मते सृष्ट्यब्दाः । शेषं कल्पादिकं प्राग्वदिति । 'ब्रह्मोक्तं ग्रहगणितं महता कालेन तत्खिलीभूतम् । प्रकाश्यत इति वदता च विष्णुधर्मोत्तरान्तर्गतब्रह्मसिद्धान्तः स्वोक्तस्य मूलमिति स्पष्ट- मेवाभिहितम् । तस्मादत्र मते कल्पादितः प्राक् ग्रहसृष्टिः कल्पादौ पूर्वगतिप्रारम्भ • इति निरवद्यम् । विधेदनादौ युगपत् समस्तं भूत्वा ग्रहाः प्राग्गमनप्रवृत्ताः । इतीरितं वेदविरोधिनस्ते ब्रह्मार्कचन्द्रादिमताद्विभिन्नाः । ब्रह्मा प्राह च नारदाय हिमगुर्यच्छौनकायामलम्, माण्डव्याय वशिष्ठसंज्ञकमुनिः सूर्यो मयायाह यत् । प्रत्यक्षागमयुक्तिशालि तदिदं शास्त्रं विहायान्यथा यत्कुर्वन्ति नरा न निर्वहति तद्विज्ञानशून्याश्चिरम् । इति ये वदन्तित एव विज्ञानशून्या अबहुदृष्टत्वात् । प्रपञ्चितं चैतत् सूर्य- सिद्धान्तवासनाभाष्येऽस्माभिरित्युपरम्यते ॥ १५ ॥ इदानीं कालमानानां विभागकल्पनां इलोकत्रयेणाह योदणोर्निमेषस्य खरामभागः स तत्परस्तच्छतभाग उक्ता । त्रुटिर्निमेषैधृतिभिश्च काष्टा तत्त्रिंशता सद्गगणकैः कलोक्ता ॥१६॥ त्रिंशत्कलाऽऽर्क्षी घटिका क्षणः स्यान्नाडीद्वयं तै खगुणैदिनं च । गुर्वक्षरैः खेन्दुमितैरसुस्तैः षड्भिः पलं तैर्घटिका खषभिः ।।१७।। स्याद्वा घटीषष्टिरहः खरामैर्मासो दिनैस्तैर्द्विकुभिश्च वर्षम् । क्षेत्र समाद्येन समा विभागाः स्युश्चक्रराश्यंशकलाविलिप्ताः ॥१८॥ वा० भा० योऽक्ष्णोर्लोचनयो: पक्षमपातः स निमेष: । स यावता कालेन निष्पद्यते तावान् कालोऽपि निमेषशब्देनोच्यते । उपचारात् । तस्य त्रिशद्विभागस्तत्परसंज्ञः | सत्परस्य शतांशस्त्र- टिरिति । अथ च निमेषैरष्टादशभिः काष्ठा | क्वचिच्छास्त्रान्तरे तिथिभिरिति पाठः । काष्ठात्रिंशता फलोक्ता | कलानां त्रिशता घटिका । सा चार्क्षी । भभ्रमस्य षष्टिभाग इत्यर्थः । घटिकाद्वयेन क्षणो मुहूर्त्तः । क्षणानां त्रिशता दिनम् । अथ प्रकारान्तरेण विनमुच्यते | गुर्वक्षर: खेन्दुमितैर- सुरिति । एकमात्रो लघुः । द्विमात्रो गुरुः । तथा "सानुस्वारो विसर्गान्तो दीर्घो युक्तपरस्तु यः ।” १. ब्राह्मस्फुटसि० १ अ० २ श्लोक : २. प्रगामन क, ख पु० । ३. सिद्धान्ततत्त्वविवेके चतुर्थंचरणे 'यत्कुर्वन्ति नराधमास्तु तदसद् वेदोक्तिशून्याभृशमिति पाठान्तरं प्राप्यते । मध्याधि० ६५ श्लो० ।
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/६३
दिखावट