पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणौ ग्रहगणिते वा० भा० यदेतद्भचक्रं ग्रहै: सह भ्रमद्दृश्यते तद्विश्वसृजा जगदुत्पादकेन कमलोद्भवेन ब्रह्मणा सृष्टयादौ सृष्ट्वा ततः शश्वद्भ्रमेऽनवरत भ्रमणे नियुक्तम् । एतदुक्तं भवति । भान्यशिव- म्यादीन्यन्यानि विशिष्टानि ज्योतींषि तेषां समूहश्चक्रं ग्रहाश्च सूर्यादयस्तैः सह सृष्टम् । तानि भानि प्राक् संस्थय समन्तान्निवेशितानि | ग्रहास्तु भगणादावश्विनोमुखे निवेशितास्त उपयुंपरिसंस्थया । तत्रादौ तावदधश्चन्द्रः । तदुपरि बुधः । ततः शुक्र: । ततो रविः | तस्माद्भौम: । ततो गुरुः । ततः शनिः । सर्वेषामुपरि दूरे भचक्रम् । एषां कक्षाप्रमाणानि कक्षाध्याये प्रतिपादयिष्यन्ते । अहो यधूर्ध्वोर्ध्वस्या ग्रहास्तदुपरि दूरतो भगणस्तत् कथं भगणादिसंस्थैर्ग्रहैरित्युच्यते । सत्यम् । अत्र भूमध्ये सूत्रस्थंकमग्र बद्ध्वा द्वितीयमग्रं भचकेऽश्विनीमुखे किल निबद्धम् । तस्मिन् सूत्रे प्रोता मणय इव चन्द्रादयो ग्रहाः सृष्टयादी ब्रह्मणा निवेशिताः । भमण्डलं द्वादशधा विभज्यैवं भूमध्यात् सूत्राणि प्रतिभागं नीत्वा किल बद्धानि तैः सूत्रैः सह ग्रहकक्षायां ये संपातास्ते तासु कक्षासु राश्यन्ताः । तद्वत्प्रकारा राशय इति संक्षिप्त मिहोक्तम् । कक्षाध्याये गोले च किञ्चिद्विस्ता वक्ष्यामः । एवंविधं भचक्रं सृष्ट्वा ब्रह्मणा गगने निवेशितम् । यत्र निवेशितं तत्र प्रवहो नाम वायुः । स च नित्यं प्रत्यग्गतिः । तेन समाहतं भचक्रं सखेचरं पश्चिमाभिमुखभ्रमे प्रवृत्तम् । यत् तस्य प्रत्यग्भ्रमणं तच्छीतरम् । यत एकेनाहा भमण्डलस्य परिवत्तः । एवं तस्मिन् भवनजरे सखेचरे शीघ्रतरे भ्रमत्यपि खेचरा इन्द्रदिशं चरन्ति पूर्वाभिमुखं व्रजन्ति | नीचोच्चतरात्म- वत्सु | अनन्तर कथितेषु स्वस्वमार्गेषु तेषां पारिभ्रमणम् । तत् तदल्पगत्या । प्रत्यग्गतेबहुत्वात् प्रागल्पगत्या व्रजन्तो नोपलक्ष्यन्त इति भावः । तथा तस्य भपक्षरस्य यौ दक्षिणोत्तरावन्तौ तत्र ये तारे ते ध्रुवत्वे नियुक्ते ।। १३-१४ ।। । वा० वा०— इदानीं कालव्यक्तिजनकत्वेन ज्योतिः शास्त्रमूलभूतत्वात् सग्र- हस्य भचक्रस्य [ चलनं श्लोकद्वयेनाह' सृष्ट्वा इति ] | विश्वसृजा गदुत्पादकेन कमलोद्भवेन ब्रह्मणा यदेतद् भचक्रं सग्रहं भ्रमद्द्द्दृश्यते तत् सृष्ट्वा शश्वद्भ्रमे नियोजितमस्ति । सृष्ट्वेत्यनेन नियोजनात् पूर्व- कालता" सृष्टेर्बोधिता | कल्पादितः प्राक् सृष्टिः कल्पादौ प्रवहवायौ नियोजनमित्युक्तं तथा च श्रीपतिः । "स्वव्यापारात् प्राग्गतिः खेचराणामू वधस्ताद्याम्यसौम्यापराणि | गोलाभिज्ञैः पञ्च यातानि यानि तेषामुक्तान्यन्य हेतूनि तानि || प्रत्यग्गतिः प्रवहवायुवशेन तेषां नीचोच्चवृत्तजनितोर्ध्वमधश्च सा स्यात् । याम्योत्तरा त्वपमवृत्तविमण्डलाभ्यां षोढा गतिनिगदितैवमिह ग्रहाणाम् ||" ( सि० शे० १५ अ० ११ १२ इलो० ) अत्रापि वृद्धवसिष्ठः 'पश्चिमदिग्गतवायुप्रवहनिबद्ध भपञ्जरे शीघ्रम् | भ्रमति सखेचरे सत्यपि खेटाः गतितः प्रयान्ति पूर्वदिशम्' ( १ अ० १२ श्लो० ) १. कोष्ठान्तर्गतोंऽशः ख पु० नास्ति । २. यादुत्पादकेम ख पु० । ४. देतत्, क, ख पु० । ३. कमत्वोत्तिन्हवन, ख पु० | ५. कालेता, ख पु० ।