पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारे कालमानाध्यायः रहस्यं गोप्यं दुष्टेभ्यः । तथा च श्रुतिः - 'विद्या ह वै ब्राह्मणमाजगाम गोपाय मा शेवधिष्ठेऽहमस्मि । असूयकायानृजवेऽयताय न मा ब्रूया वीर्यवती तथाऽस्याम् || कालप्रतिपादकत्वात् परमतत्वम् ' | पुरुषार्थचतुष्टयसाधनस्य वेदस्याङ्गमित्ये तदध्ययनपूर्वकं ज्ञानं धर्मार्थकाममोक्षदमिति सम्यगुक्तम् । सम्यगित्यनेन प्रत्यक्षागम सहितमित्युक्तम् । एतत्प्रतिपाद्य ग्रहचारादे: प्रत्यक्षप्रमाणसिद्धत्वात् वेदवत् स्वत प्रमाणं स्मृतिवद्वेदमूलकत्वेन वा प्रमाणम् । शाक्यादिप्रणीतशास्त्रवदप्रमाणमिति शङ्कापि नास्ति । 3 तथा चाहु:- अप्रत्यक्षमिहान्यशास्त्रगदितं कोऽप्यत्र न प्रत्ययो, वाद: केवलमत्र तत्र च मिथः सर्वा विरुद्धोक्तयः । ज्योतिः शास्त्रमदो वदत्यवितथं दृष्टप्रमाणं यतो, वक्तारो न विरुद्धबुद्धय इदं स्वाध्यायचक्षुः किल ॥ इति ॥ १२ ॥ इदानों ज्योतिश्शास्त्रमूलभूतस्य सग्रहस्य भचक्रस्य चलनं श्लोकद्वयेनाह । सृष्ट्वा भचक्र कमलोद्भवेन ग्रहै: सहैतद्भगणादिसंस्थैः । शश्वद्ध मे विश्वसृजा नियुक्तं तदन्ततारे च तथा ध्रुवत्वे ॥ १३ ॥ ततोऽपराशाभिमुखं भपञ्जरे सखेचरे शीघ्रतरे भ्रमत्यपि । तदल्पगत्येन्द्रदिशं नभचराचरन्ति नीचोच्चतरात्मवर्त्मसु ॥ १४ ॥ ३. चाङ्गः क, वाहु: ख पु० १. परमं कपुo | २. प्रतिपादक कपु० । ४. वृद्धवसिष्ठसिद्धान्ते-सृष्ट्वा ज्योतिश्चक्रं खत्रयवेदाङ्गखाद्रिशशिवर्षेः । शश्वद्भ्रमणे क्षिप्त्वा मेषादिग्रहा: कमलभुवा ( १ अ० ११ श्लो० ) तथा च श्रीपतिः 'ध्रुवद्वयी मध्यगतारकाश्रितं चलद्भचक्रं जलयन्त्रवत् सदा । विधि: ससर्जाश्विनपौष्णमध्यगैहै: सहोपर्युपरि व्यवस्थित : ' ( सि० शे० १ अ० ९ श्लो० ) । अत्रार्यभटः "उदयास्तमयनिमित्तं प्रवहेण वायुना क्षिप्तः । लङ्कासमपश्चिमगो भपञ्जर : सग्रहो भ्रमति ॥” १३ ५. अत्र लल्ल: । "मध्यमकक्षावृत्ते मध्यमया गच्छति ग्रहो गत्या । उपरिष्टात् तल्लध्व्या तदधिकगत्या त्वधः स्थ: स्यात् ॥ वक्री यात्यपराशां निसर्गतो गच्छति ग्रहः प्राचीम् । क्रान्त्या याम्योदीच्योर्ग्रहगतिरेवं भवेत् षोढा ॥ " शि० धी० गो० भुव० ३८-३९ इलो० ।