पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारे कालमानाध्यायः १५ भवति । शश्वद्भ्रमतीति शश्वद्भ्रमे निरन्तरनियतपश्चिमगतिः प्रवह एव । भान्य- श्विन्यादीन्यष्टाविंशतिसंख्याकानि | अन्यानि च लुब्धकादीनि ज्योतींषि तेषां समूहो भचक्रमित्युक्तं भाष्यकृता । तत्र नोदयन्ति । यथा परो 'धावतीत्यनेनान्योऽपि प्रती- यते, तथान्यानि च ज्योतींषीत्यनेन दास्रादिनक्षत्राणामपि तैजसत्वमभ्युपगतं प्रतीयते, तच्च सिद्धान्तविरुद्ध मिति । अत्रोच्यते । परमतप्रसिद्धयभिप्रायेणोक्तत्वा- न्नैष दोषः। यद्वौपाधिकं तैजसत्वं गृहीत्वोक्तं ज्योतींषीति । अथवा चन्द्रव्यतिरिक्तानां ग्रहाणां नक्षत्राणाञ्च तैजसत्वमेवाभ्युपगम्यते । अस्ति च तेषां परप्रकाशकत्वं स्वा- भाविकम् । औपाधिकपरप्रकाशकत्वे मानाभावात् । शशाङ्कस्य तैजसत्वे ग्रहणशृङ्गो- न्नमनदर्शादर्शनाद्यनुपपत्तिः । तस्मादन्यथाऽनुपपत्त्या चन्द्रस्य जलमयत्वं स्वीक्रियते । अन्येषां तु तैजसत्वे न किञ्चिद्बाधकमस्तीति श्रीमदाचार्येणान्यानि ज्योतींषीति सम्य- गुक्तम् । तदन्ततारे च ध्रुवत्वे नियुक्ते । तेषामश्विन्यादीनामन्तयोस्तारे भचक्रस्य समन्तात् पूर्वापरयोः स्थितत्वादन्तो नास्त्यतो दक्षिणोत्तरे ध्रुवत्वे स्थिरत्वे नियुक्ते निबद्धे। ध्रुवमध्यगं भवलयं गगनस्थितचुम्बकपाषाणद्वयान्तर्गताऽयोगोलवद्यथा न पतति तथा ध्रुवयोः स्थिरता कृतेति भावः । ननु भवलयस्य समन्तात् स्थितत्वेन कल्पादौ ग्रहाः कुत्र निवेशिता इत्यत्र विशेषणद्वारेणाह भगणादिसंस्थैरिति । दास्रनक्षत्रस्यादिसंस्थैरित्युक्तम् । यस्मादनव- रतनिय तपश्चिमगतौ स्थापितं तद्धेतोरपराशाभिमुखं सखेचरे भपञ्जरे भ्रमत्यपि नभश्चरास्तदल्पगत्या पूर्वदिशं सञ्चरन्ति । यत्तस्य प्रत्यग्भ्रमणं तच्छ्रीघ्रतरम् । एके- नाह्वा नाक्षत्रेण भमण्डलस्य परिवर्त्तः । तस्माद्याऽल्पा पूर्वा गतिस्तया व्रजन्तोऽपि झटिति नोपलक्ष्यन्त॰ इति तदल्पगत्येत्युक्तम् । नभश्चराः सञ्चरन्तीत्यनेन या पूर्वगतिः सा ग्रहशक्त्यैवेति सूचितम् । पश्चिमगतिस्तु प्रवहवशतो न स्ववशत इति । ततो भपञ्जरे सखेचरे भ्रमत्यपीत्यनेनोक्तम् । न ह्यश्विनीमुखे युगपत् सर्वेषामवस्थानं संभव- तीति — कुत्र सञ्चरन्तीत्यपेक्षायां भग्रहसंयोगे मुहुरनुभूतम् । कक्षाणामूर्ध्वाधरत्वमाह’ – नीचोच्चतरात्मवर्त्मसु । अतिशयेन नीचोच्चानि यानि आत्मवर्त्मानि मार्गास्तेषु । केन क्रमेणेत्यत आह । तावदधश्चन्द्र इत्यादि । ननु कक्षाणामूर्ध्वाधरान्तरस्य विद्यमानत्वात् कथं भगणादिसंस्थैरित्युच्यते । सत्यम् । पूर्वापरान्तराभावं भमुखग्रहाणामभ्युपेत्योच्यते । भमुखग्रहाणां पूर्वापरान्तराभाव एव ज्ञायते । अत्र भूमध्ये सूत्रस्यैकमग्रं बध्वा द्वितीयमग्रं चाश्विनीमुखे निवेशनीयम् । तत् सूत्रं ग्रहकक्षासु यत्र लग्नं तासु कक्षासु तत्राश्विनीमुखमित्युपचर्यते । तस्मिन् सूत्रे ५. १. धावता, ख पु० । ३. तेजेसात्व, ख पु० । परकाश, ख पु० । ७. लक्ष्यत ख पु० । भग्रहग्रह क ख पु० । ९. २. ज्योतां, ख०पु । ४. ग्रहणं ख पु० ६. स्वापितम्, कपु० । ८. सभव ख पु० । १०. मुर्ध्वा, क, ग० पु०