पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्योत्पपत्तिः ५३५ बृहच्चापज्यात्रिज्यागुणा । बृहच्चापज्यायां शोध्येति प्राप्ते गुणयोरेव लाघवादन्तरं कृत्वा लघुचाप- कोटिज्यागुणबृहच्चापज्यात्रिज्याभक्ता फलं बृहच्चापकोटिज्यागुणत्रिज्याभक्तलघु- चापज्यायां योज्यमित्युत्पद्यते । अत उपपन्नम् - लब्ध्योर्योगश्चापैक्येति । एवं लघुचाप- चापैक्यज्यान्तरसाधनेऽप्यूह्यम् । एवं लब्धयोरन्तरं चापान्तरज्येति यथेष्टकनिष्ठज्येष्ठाभ्यां ज्ञाताभ्यामन्यानि पदान्युत्पद्यन्ते । तथात्रापि चापद्वयजीवाज्ञाने सर्वा अपि जीवा ज्ञायन्त इति ज्यानां भावनेत्युक्तम् । अत्रान्यथान्यैर्मिथः कोटिज्यकाहते दोर्ज्यो । इत्यस्योपपत्तिः - सोदाहरणोच्यते । यत्र त्रिभमध्ये चतुर्विंशतिजीवास्तत्र प्रथमज्या तत्त्वाश्वितुल्या । तत्र तत्त्वाश्विकलाप्रमाणेन पञ्चमनवमजीवाज्ञाने तत्को- टिज्याज्ञाने च चापैक्यज्यासाधनेन चतुर्दशीजीवा ज्ञायते चापान्तरज्यासाधनेन चतुर्थी ज्ञायते । पञ्चमजीवायाश्चतुर्दशसंख्यजीवायाश्चान्तरं नवमितज्याखण्डात्मकं नव- तुल्यानुपातैः साध्यते । यदि त्रिज्यातुल्यकोटिज्या प्रथमं तत्त्वाश्वितुल्यं ज्यान्तरं लभ्यते तदैकोनविंश- तिजीवातुल्यकोटिज्यया किमिति जातं पञ्चमजीवायाः षड्जीवायाश्चान्तरम् । पुनरनुपात: त्रिज्यातुल्यकोटिज्यया द्वितीयं ज्याखण्डकं तदैकोनविंशतिजीवा- तुल्यकोटिज्यया किमिति षष्ठजीवायास्तदग्रिमायाश्चान्तरं जातम् । एवं सप्तानुपातैः सप्तखण्डानि साध्यानि । ततस्तेषां योगः पञ्चमज्याश्चतुर्दश- मितज्यायाश्चान्तरं भवति । तस्मादेकोनविंशतिज्या तुल्या लघुचापकोटिज्या | तत्त्वाश्विप्रमुखाणि यान्युत्क्रमेण नवसंख्यानि ज्यान्तराणि तैर्नवधा गुणनीया सर्वत्रापि त्रज्यया भाज्येति 'प्राप्ते एकोहरश्चेद् गुणकौ विभिन्नौ तदा गुणैक्यमेवैको गुण' इति युक्तथा लघुचापकोटिज्यायास्तत्त्वदस्राद्यात्मकनवखण्डयोगो नवमी जीवा तुल्य एव गुणः कृतः हरस्तु त्रिज्यैव । अत्र नवमी जीवैव बृहच्चापजीवा सञ्जातेति 'चापयो- रिष्टयोर्दोये मिथः कोटिज्यकाहत इत्युक्तम्' । एवं बृहच्चापकोटिज्यातोऽपि ज्यान्तरं साध्यम् । शेषं पूर्ववत् । इयं ज्योत्पत्तिवासनाप्रसङ्गेन सूर्यसिद्धान्तवासनाभाष्येऽप्यस्माभिरुक्ता । समासभावनेत्यादिवृत्तत्रयं स्पष्टम् ॥ १-२५ ॥ श्रीमत्कौङ्कणवासिकेशवसुतप्राप्तावबोधाद्बुधाद् भट्टाचार्यसुताद्दिवाकर इति ख्याताज्जनि प्राप्तवान् । यः कृष्णास्तनयेन तस्य रचिते सद्वासनावात्तिके; सत्सिद्धान्तशिरोमणे: सुविषमा ज्योत्पत्तिरेषागमत् ॥ इति श्रीसकलगणकचक्रचूड़ामणिकृष्ण दैवज्ञसुतनृसिंहगणकविरचिते सिद्धान्त- शिरोमणिवासनावात्तिके ज्योत्पत्तिः ॥