पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३४ सिद्धान्तशिरोमणी गोलाध्याये अनेनेष्टयुक्तेन गुणेन निघ्नो गुण्य इति कृतम् । ततोऽभीष्टघ्नगुण्यस्य सम्पत्यर्थं पुनरि ष्टचापदोर्ज्ये कोननवतिजीवा त्रिज्यान्तरेण गुण्या त्रिज्यया भाज्येति प्राप्ते गुणहरौ गुणेनापवर्त्य गुणगुणने रूपम् । हरस्थाने गोऽङ्गेषुषट् ।। ६५६९ || अत उपपन्नं स्वगोऽङ्गेषुषडंशेन वर्जिता ज्येत्यत्र गुणहरौ षड्भिरपर्त्य लब्धं ५७३ अत उपपन्नं कोटिज्या दशभिः क्षुण्णेत्यादि । यथेष्टकनिष्ठज्येष्ठाभ्यां ज्ञाताभ्यामन्यानि ( पदान्युत्पद्यन्ते) ज्यानां भावनेत्युक्तम् । इदानीं चतुर्विंशतिजीवामध्ये इष्टज्याज्ञाने तत्पूर्वाज्याज्ञानमाह- सार्द्धवृत्तद्वयेन- कोटिजीवेति । दोर्ज्योति । तत्त्वदत्रा इति । अत्र वासना प्राग्वदेव । किन्त्वत्र तत्त्वदस्रा नगांशोना प्रथमजीवा तत् कोटिज्या त्रयोविंशतिसंख्यजीवेति विशेषः ।........ अथेष्टचापद्वयदोर्ज्याकोटिज्याज्ञाने चापैक्यज्याज्ञानमाह - चापयोरिष्टयो इति । चापान्तरस्येति । अत्रेयं युक्तिः। अत्रेष्टचापचापैक्यज्ययोरन्तरं साध्यते । तत्रानुपातः । यदि त्रिज्यातुल्यया कोटिज्यया लघुचापदोर्ज्यातुल्यं बृहच्चापचापैक्यज्यान्तरं लभ्यते तदा बृहच्चापकोटिज्यया किमिति जातं बृहच्चापचापैक्यज्ययोरन्तरम् । एवं यदि त्रिज्यातुल्यकोटिज्यया बृहच्चापदोर्ज्यातुल्यं लघुचापचापैक्यज्ययोर- न्तरं लभ्यते तदा लघुचापकोटिज्यया किमिति जातं लघुचापचापैक्यज्ययोरन्तरालम् । यदा शून्यतुल्यमेकं चापं द्वितीयं स्वेष्टं तदा स्वेष्टचापज्यातुल्यमेव शून्यमित - ज्याचापैक्यज्ययोरन्तरमिति बालैरपि बुध्यते । तस्माद्युक्तोऽयमनुपातः । बृहल्लघुसंज्ञे चापयोरसङ्कराद्यं धृते । अत उक्तम् – चापयोरिष्टयोर्दोर्ज्यो मिथः कोटिज्यकाहते' । त्रिज्याभक्ते । इति । अनयोर्लब्ध्योर्योगश्चापैक्यज्येत्युक्तम् । वस्तुतस्तु लघुचापजीवायां लघुचापचापैक्यज्यान्तरयोज्यं बृहच्चापजीवायां बृहच्चापैक्यज्यान्तरालं वा योज्यमित्येवोचितं भवति । तथा किमिति न कृतमिति चेदुच्यते । तथा कृतेऽपि तत्त्वाऽश्विनो नन्दसमुद्रवेदा इति पठितज्यया चापैक्यज्यायाः साम्यादर्शनात् तस्य चात्र संभवाद्वासनोपलभ्यैव लब्धयोर्योगश्चापैक्यज्येत्युक्तम् । अत्रायमभिसन्धिः । यदा नवतिमितं बृहच्चापं लघुचापं स्वाभीप्सितं तदा लघुचापकोटिंज्यातुल्याचापैक्यज्याः पठितज्याभिर्भवन्ति । उक्तयुक्तया तु बृहच्चाप- जोवाय ास्त्रिज्यातुल्यत्वेऽष्टज्यान्तरस्य शून्यत्वात् त्रिज्यातुल्या चापैक्यज्या भवति । तयोर्लंघुचापात्क्रमज्यातुल्यं परममन्तरम् । अतोऽनुपात: । यदि त्रिज्यातुल्यया लघुचापोत्क्रमज्यातुल्यमुक्तप्रकारानीतचापैक्यज्यायां न्यूनीकरणीयं तदेष्ट्या किमिति । फलं खण्डद्वययोगात्मिकचापैक्यज्यायां शोध्यम् । तत्राचार्येण बृहच्चापज्यारूप एव खण्डे शोधितम् । तत्र समच्छेदविधिना बृहच्चापजीवायास्त्रिज्यैव गुणो हरश्च भवतः । गुण्यगुणयोः कामचार इति लघुचापोत्क्रमज्या गुणा ।