सामग्री पर जाएँ

पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्योत्पत्तिः ५३३ अत्र वासना । चक्रकलाङ्के वृत्ते लघुभुजज्यां तत्कोटिज्याञ्च दत्त्वा बृहद्भुज - ज्यातत्कोटिज्यासूत्रे प्रसारयेत् । तत्रेदं क्षेत्रमुत्पद्यते । लघुभुजज्योनोबृहद्भुजज्याव- यवो भुज: लघुकोटिज्योनो बृहत्कोटिज्यावयवः कोटि, लघुभुजज्याग्रपरिधिपाताद् बृहद्भुजज्याग्रपरिधिसम्पातपर्यन्तं भुजयोवियोगखण्डसम्पूर्णज्याकर्णः भुजकोटिवर्ग- योगपदं कर्ण इत्यनेन कर्णे साध्यमाने सर्वमिदमुत्पद्यते । कोटिभुजान्तरार्द्धजीवाज्ञानमाह- दो: कोटिजीवाविवरस्य वर्ग इति । अत्रोपपत्तिः– अत्रापि प्राग्वद्वृत्ते दोर्ज्या कोटिज्यां च दत्त्वा द्वितीयदोर्ज्याव त्कोटिर्देया द्वितीयकोटिज्यावद्दोर्ज्या च देया । ततः प्राग्वज्जातः कर्णवर्गो द्विगुणदो:- कोटिजीवान्तरवर्गतुल्यः तत्पददलं ग्राह्यम् । तत्र वर्गचतुर्थांशपदे गृहीते सर्वं निष्पद्यते । दोः कोटिभागान्तरज्याज्ञानमप्याह दोर्ज्याकृतिरिति । अत्र वासना तत्र दो: कोटिभागान्तरस्वरूपमुच्यते । भुजांशोननवतिः किल कोटिस्तस्यां कोटौ भुजांशेष्वपनीतेषु 'संशोध्यमानं स्वमृणं स्यादित्यादिना' जातं भुजकोटयन्तरं द्विगुणभुजांशोननवतितुल्यम् । इदमेव साध्यम् । यदा त्वेतावान्भुजस्तदा द्विगुणपूर्वभुज एव कोटिरिति प्रसिद्धम् । यद्येतस्याः कोटेरुत्क्रमज्या ज्ञायेत तदा कोटयुत्क्रमज्योनत्रिज्याभुजज्येत्यनेन दोः कोटिभागान्तर- जीवाज्ञानं सुलभं स्यात् । तदुपोद्घातत्वेनेदं चिन्त्यते । इष्टभुजांशानां जीवाज्ञाने द्विगुणेष्टभुजांशानामुत्क्रमज्यायाज्ञानं कथं स्यादिति । केवलेष्टभुजज्या नाम द्विगुणेष्टभुजभागोत्क्रमज्यात्रिज्याघातदलमूलमिति बालै- रपि बुध्यते । तस्माद्विलोमेनेष्टभुजज्यातो द्विगुणेष्टभुजांशानामुत्क्रमज्यासाधनमुचितमि- त्युपायो दृष्टः । तत्र विलोमेनेष्टभुजांशानामुत्क्रमज्येति प्राप्ते गुणहरौ गुणेनापवर्त्येष्टभुजज्या- वर्गस्य त्रिज्याद्धं हर इत्युक्तम् । जातेयं द्विगुणेष्टभुजांशानामुत्क्रमज्या | प्रकृते कोटे- रुत्क्रज्येयम् । अनयोना त्रिज्या द्विगुणभुजांशोननवतिरूपस्य भुजस्य ज्येति सिद्धं दोः कोट्यन्तरज्येति । अथ यत्र त्रिभमध्ये नवतिजीवास्तत्राभीष्टजीवायां ज्ञातायां तदग्रिमतत्पृष्ठस्थ- जीवाज्ञानं समासान्तर्भावनाभ्यामाह - स्वगोङ्गेषु षडशेनेति । तदेक्यमिति । व्यासार्द्ध इति । अत्रोपपत्तिः– यदि नवतिखण्डैस्त्रिभकला ५४०० तुल्यं धनुर्लभ्यते तदैकेन किमिति प्राप्तं प्रथमखण्डधनुः षष्टिकलातुल्यम् । षष्टिकलातुल्यैवास्य ज्या । अत उक्तं प्रथमज्याभवेदेवं षष्टिरिति । अथेष्टचापस्य षष्टितुल्यचापस्य योगान्तरज्ये साध्येते । तत्र 'चापयोरिष्टयोदय मिथ: कोटिज्यकाहते' इति वक्ष्यमाणप्रकारेष्टचापज्या षष्टिचापस्य कोटिज्यया एकोननवतिसंख्य जीवात्मिकया ३४३७/२८ गुणनीया त्रिज्यया भाज्या । तत्र गुणे हरगुणान्तरतुल्यमिष्टं प्रक्षिप्य गुणहरयोस्तुल्यत्वान्नाशे - कृते इष्टचापदोज्ये॑व लब्धा ।