पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३६ सिद्धान्तशिरोमणौ गोलाध्याये बुद्धेविवृध्ये सद्वासनावासितमानसानां गणितप्रबन्धविचारसारामृतमावहन्ती- मदुक्तिरेषा मुदमादधातु ॥१॥ गुणवेदशरेन्दु १५४३ सम्मिते शककाले नगरेशितुः वसता वरणासिमध्यगे नरसिंहेन विनिर्मितं त्विदम् ॥२॥ निजे तत्त्वमिते वर्षे पञ्चत्रिंशन्मिते वर्षे सौरभाष्यं मया वासनावात्तिकं अग्रणीस्तैत्तरीयाणां आसीन्मीमांसकश्रेष्ठः कृतम् | कृतम् ||३| नवीनयुक्तिप्रतिपादनेन पूर्वोक्ततन्त्रादपि सद्विशेषम् । - नरप्रणीतान्नृहरिप्रणीतं स्वीकार्यमार्यैः स्वधिया विचार्यम् ||४| गोदावरीसौम्यतटोपकण्ठग्रामे च गोलेऽभिधया प्रसिद्धे । विप्रो महाराष्ट्रसुगीतकीर्तिर्बभूव रामो गणकार्यवन्द्यः ||५| तत्सुतः भट्टाचार्यस्तु कुमारिल इवापरः ॥६॥ 1 गोत्रे भरद्वाजमुनेः पवित्रे दिवाकरस्तत्तनयो बभूव । वेदान्तशास्त्राभ्यसनेन काश्यां यः पुण्यराश्यां तनुमुत्ससर्ज ॥७॥ साम्वत्सरार्यस्य दिवाकरस्य श्रीकृष्णदैवज्ञ इति प्रसिद्ध । बभूव पुत्रः सुतरां पवित्रः सत्तोर्थकर्त्ताखिलशास्त्रवेत्ता ||८| तज्जस्तु तस्यैव कृपालवेन तातानुजावाप्तसमस्तविद्यः । सद्वासनावात्तिकनामधेयं ग्रन्थं नृसिंहो रचयाम्बभूव ।।९। नो या वराहेण च जिष्णुजेन पृथूदकेनार्यभटेन जुष्टाः । असंस्तुता भास्करदर्शनेन ता वासनावात्तिक एव लभ्याः ॥१०॥ मदुक्ति सयुक्तिजलाञ्जलीभिः सन्देहमन्देहवधं विधाय । बुधाः सुधां भास्करदर्शनोत्थामास्वादयन्तोऽभिमतानि कुर्युः ॥११॥ ॥ इति गणकचक्रचूड़ामणि नृसिंहकृते सिद्धान्तशिरोमणि- वासनावात्तिके ग्रन्थ समाप्त्यलङ्कारः ॥ अत्र संख्या द्वाविंशतिशतानि २३०० एवमत्रादितो ग्रन्थसंख्या वियदम्बरपञ्चपञ्चतुल्या ५५०० ॥ ॥ श्रीमन्नृसिंहगुरुभ्यो नमः ॥