पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रश्नाध्यायः

५२३

असंभवः संभवलक्षणेऽपि स्यात् संभवोऽसंभवलक्षणे किम् । पातस्य सिद्धान्तमिह प्रचव चेत् क्रान्तिसाम्ये प्रसृता मतिस्ते ॥ ५५ । भागोनयुक्तं त्रिभ । मर्कचन्द्रौ चेत् सायनांशौ च विषातचन्द्रः। भागद्वयोनो भगण स्तदानीं पातं वद त्व यदि बोबुधीषि ||५६ | यातेऽपि पाते क्वचिदेष्यलक्ष्म गम्ये न गम्यं वद चित्रमत्र | यत् संभवासंभववैपरीत्यं सांवत्सराचार्य विचार्य नूनम्' ।। ५७ । एते प्रश्ना व्याख्याता एव । अस्य भङ्गः - यदि रसतोऽल्पैरिन्दो: शुक्लाङ्गुलकै रवीन्दुविवरांशाः । ज्ञातुमभीष्टास्तु तदाङ्गुलसंख्या त्रिगुणसगुणाङ्ग्रहृता ॥ आप्तोत्क्रमचापलवाः सितसंज्ञा स्तज्ज्यकाघ्नविधुकर्णात् । रविकर्णाप्तधनुलं वहीनसितांशा अभीष्टभागाः स्युः ॥ १. अत्र बापूदेवोक्तः प्रश्न:- हिमांशुगोलायनसन्धियुग्मज्ञानार्धमन्यैविधयो य उक्ताः । तेभ्योऽतिसूक्ष्मं सुलभं प्रकारं विचार्य पूर्णं वद विज्ञ तूर्णम् ॥ अस्य भङ्गश्च -- परेषुजीवा व्ययनांशपातकोटिज्यकाघ्नी त्रिगुणेन भक्ता । फलात् परापक्रममोविकाघ्नात् त्रिभज्ययाप्तं खलु लभ्यते यत् ।। त्रिभद्युमौर्व्याः परमेषुकोटिज्याघ्न्यास्त्रि मौर्व्या यदवाप्यते च । तदन्तरैक्यं विदधीत नक्रकर्यादियाते व्ययनांशपाते ॥ तच्चापकोटी रजनीश्वरस्य तात्कालिकः स्पष्टपरापम: स्यात् । तस्य ज्ययाप्टा व्ययनांशपातदोर्ज्या परेषज्यकया विनिघ्नी ॥ फलं रवेराद्यपदीयदोर्ज्या प्रकल्प्य तस्या विषुवाख्यभागान् । प्रसाध्य तैयनांशपाते मेषादिषड्राशिगते विहोनौ ॥ तुलादिषड्राशिगते तु युक्तौ सहस्ररश्मेः किल गोलसन्धी । कुर्वीत तावोषधिनायकस्य स्यातां सुबुद्धये कविचारगम्यौ ॥ चन्द्रस्य गोलसन्धी राशित्रितयेन संयुक्तौ । क्रमशस्तदयन सन्धी ज्ञेयौ स्वल्पान्तरौ सुगोलविदा || श्रीम० देवोक्तोऽयनसन्ध्योरानयनप्रकारः - परेषुजीवा व्ययनांशपातमौर्व्याहता स्पष्टपरापमस्य । मौर्योद्घृता लब्धजचापकोटिज्याघ्नी जिनज्या त्रिगुणेन भक्ता || आद्यस्त्रिराशिद्युगुणोऽन्यसंज्ञस्तौ च क्रमात् स्पष्टपरामस्य । कोटिज्यया दोज्यंकया विनिघ्नौ विश्लेष्य भक्त्या परमेषुमौर्व्या ||