पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणी गोलाध्याये वा० वा० – शिष्यधीवृद्धिदे तन्त्रे लल्लेन यो महापातसाधनोपायोऽभिहितः सोऽयुक्त इति प्रतिपादनाथं पातसंभवासंभवगतैष्यवैपरीत्यं तदुक्तमार्गेणात्र भवतीत्यु- दाहरणानि प्रश्नव्याजेनाह - तिग्मांशुचन्द्रौ किलेति । युक्तायनांश इति । असम्भव इति । भागोनयुक्तमिति । यातेऽपि पाते क्वचिदिति । अत्र विपातचन्द्र इति यदुक्तं तत्तत्तन्त्राभ्यासवशादिति स्पष्टम् । इदं पाता- धिकारभाष्ये स्पष्टं निरूपितम् ॥ ५३-५७ | इबानीं सिद्धान्तग्रथनकालमाह - ५२४ रसगुणपूर्णमही १०३६ समशकनृपसमयेऽभवन्ममोत्पत्तिः । रसगुण ३६ वर्षेण मया सिद्धान्तशिरोमणी रचितः ॥ ५८ । इदानीं विद्वज्जनानुनयादनौद्धत्यप्रतिपादन द्वारेणात्मनः प्रागल्भ्यं प्रार्थयन्नाह - गणितस्कन्धसंदर्भोऽदश्रदर्भाग्रधीमतः' । उचितोऽनुचितो यन्मे धाष्टर्घ्यं तत् क्षम्यतां विदः ।। ५९ । वा० भा० - गणितस्कन्धस्य संदर्भों नाम रचनाविशेषः । असावदभ्रदर्भागधीमतः । मूलप्रवेशादुपरि यानि पुष्टानि दीर्घाणि दर्भपत्राणि असावदभ्रदर्भस्तस्याग्रं यथा तीक्ष्णं तथा यस्य मतिस्तीक्ष्णा अभेद्यमपि प्रमेयं भित्त्वान्तः प्रविशति तथाविधस्य गणितस्कन्धप्रबन्ध उचितः । अनुचितो मे तथापि कृतः । तद्धाष्टयं हे विद्वज्जना गणकाः । क्षम्यताम् ॥ ५९॥ इदानीमाद्यदूषणापराधं परिहरन्नाह - ये वृद्धा लघवोऽपि येऽत्र गणका बद्ध्वाञ्जलिं वच्मि तान् क्षन्तव्यं मम तैर्मया यदधुना पूर्वोक्तयो दूषिताः । कर्तव्ये स्फुटवासनाप्रकथने पूर्वोक्तिविश्वासिनां तत्तदूषणमन्तरेण नितरां नास्ति प्रतीतिर्यतः ।। ६० । वा० भा० –स्पष्टार्थम् ॥६०॥ वा० वा० – अथ ग्रन्थसमाप्तिकरणकालं स्वोत्पत्तिकालकथनपूर्वकं वदति - रसगुणपूर्णमहीसमशकनृपसमये भवन्ममोत्पत्तिरिति । विनयादाह – गणितस्कन्धसन्दर्भ इति । तच्चापयुक्तोनित युक्तहीनः पदक्रमेण व्ययनांशपातः । चक्राच्च्युतोऽसावयनांशहीनः पृथक् सषड्भोऽयनसन्धियुग्मम् ॥ निशापतेस्तत् खलु गोलसन्धिविश्लेषितं स्पष्टपदं विधो: स्यात् । पूर्वैरनुक्तं यदिदं मयोक्तं तस्यैकहेतुस्तु गुरूपदेशः ॥ १. दर्भगर्भाग्रधीमत इति पाठान्तरं क्वचित् पुस्तकेषूपलभ्यते तथाप्याचार्यंकृते एतच्छ्लोक- व्याख्याने तथाविधार्थादर्शनेऽपि कथं पाठान्तरकल्पनेत्यत्र मूलं मृग्यम् ।