पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५.२२. सिद्धान्तशिरोमणी गोलाध्याये युक्तायनांशोंऽशशतं शशी चेदशीतिरको द्विशती विपातः । चन्द्रस्तदानीं वद पातमाशु धीवृद्धिदं त्व यदि बोबुधीषि ॥ ५४ । १९. पलांशमानून्नतभागयोगं सहस्ररश्मेरपमांशकांश्च । दिगंशकांश्च प्रविलोक्य मित्र प्रचक्ष्व मे सत्वरमक्षभागान् ॥ २०. नक्षत्रयोर्यः स्फुटवैषुवांशान् स्फुटापमांशांश्च समीक्ष्य धीमान् । ज्ञातानुदकुसंज्ञपलांशदेशे यदा तयोः स्यान्नतभागसाम्यम् ॥ 'तत्कालजं तन्नतभागमानं प्रत्येक मृक्षस्य दिगंशभागान् । नताख्यकाली च सपद्यवैति निःसंशयो गोलविदग्रणीः सः || एवमन्येऽपि शिष्यबुद्धिवैशद्यार्थं श्रीम० देवेन विरचिताः प्रश्नाः । 11:25 समग्रमयुतं तद्धृत्यग्रा योगमवेक्ष्य यः । पृथक्पृथग्वदेदेतांस्तं मन्ये क्षेत्रवित्तमम् ।। दिगंशनतकालवित समवगत्य योंऽशानतानथापमविदन वा वदति तूर्णमक्षप्रभाम् । स गोलगणिताटवीद्विरदगोलवित्सङ्गरे मृगाधिपकुमारको भुवि जयश्रियं संश्रयेत् ॥ सर्वे ग्रहा रविमुखास्तु दवीयसो वा नेदीयसः खलु भुवश्च भवेयुरेव । कल्पे वद स्थितिरियं हि कदा कदा स्यात् तां च स्थिति वद सदःश्रवणैकयोग्याम् ॥ वर्षाणि यानि नव तानि महीघ्रमुख्यभिन्नानि भारतमुखानि समं समन्तात् । "गोलेऽन्तरास्थितमिलावृतमेकमेषामं शैविभज्य वद तानि पृथक्-पृथङ मे || एवमन्येऽपि शिष्यबुद्धिवंशद्यार्थं श्रीम० देवसतीर्थेन विनायकशास्त्रिणा विरचिताः प्रश्नाः । योगान्तरज्यान्यतरज्ज्ञात्वा योगं ज्ययोरपि । यो वेद चापयो पृथक् कोऽन्यस्ततः सुधीः ॥ योगान्तरज्यान्यतरद् विदित्वा चान्तरं ज्ययोः । !, यो वेद चापयोर्दोज्य पृथक् कोऽन्यस्तत: सुधीः ॥ बुधोपमनतांशवित् समवगत्य दिग्भागकान् नतं समयमत्र वा वदति शीघ्रमक्षज्यकाम् । सगोलगणितं कृतं करतलेऽमुना धीमता नगोचरममुष्यं यत् तदिह नास्ति पृथ्वीतले ॥ अथ-बापूदेवोक्तोऽन्यः प्रश्न:- मासस्य प्रथमे पादे तुर्ये वा हिमदीधितेः । शुक्लाङ्गुलानि सूक्ष्माणि वदाशु गणकोत्तम || अस्य भङ्गः । मानोदेन्दुश्चरणोनषट् काष्टाल्पांश कैरन्तरितस्तदानीम् । तदंशदो कोटिगुणौ खरांशुश्रुत्या निहत्य त्रिगुणेन भक्तौ ॥ कोटीफलस्य द्विजराजकर्णोनितस्य वर्गात खलु दोः फलस्य । कृत्या युतान्मूलमनेन भक्तस्त्रिभज्यका दोः फलयोश्च घातः ॥ लब्धस्य याश्चापकलाः स्युरासां विलोममोर्व्या ऋतुमिहंतायाः | त्रिभज्ययाप्तं तुहिनांशुबिम्बे शुक्लाङ्गुलानि स्युरतिस्फुटानि ॥ अन्य: प्रश्न: - एवं संवीक्ष्य शीतांशुशुक्लाङ्लमिति सखे । सहस्ररश्मिशुभ्रांश्वोरन्तरांशान् द्रुतं वद ॥