पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रश्नाध्यायः तिग्मांशुचन्द्रौ किल सायनांशौ चतुर्द्विराशी च विषातचन्द्रः । गृहाष्टकं तत्र वदाशु पातं धीवृद्धिदं त्व यदि बोबुधीषि ॥ ५३ । एवमन्येऽपि शिष्यबुद्धिवैशद्यार्थं शा० बापूदेवेन विरचिताः प्रश्नाः । १. यद्भागनवत्यन्तरदलजीवायाः कृतिस्तदंशानाम् । द्विगुणाया जीवायाः कृत्या तुल्या भवेद्वदांशांस्तान् ॥ २. अग्राक्षितिज्ययोर्योगं क्रान्तिज्यां चावगम्य यः । सत्वरं पलभां वेत्ति सोऽक्षक्षेत्रविदप्रणीः ॥ ३. समशङ्क्वग्रयोर्धातमवगत्य च तद्धृतिम् | अक्षक्षेत्रविदक्षामां वद मित्र तथापमम् || ४. उज्जयिन्यां यदा सूर्य: सममण्डलमागतः । नतकालं तदा वीक्ष्य क्रान्तिज्यां वद कोविद || ५. अक्षप्रभां चरज्यां च ज्ञात्वा त्वं क्रान्तिमौर्विकाम् । ५२१ अवगच्छ द्रुतं तात यदि गोलेऽसि शिक्षितः ॥ ६. सहस्रभानो समवृत्तयाते पलोद्भवाख्यं वलनं विदित्वा । समुन्नतं कालमवेक्ष्य विद्वन् ब्रह्मक्षभामुष्णकरापमं च ।। ७. समाख्यवृत्तात् किल दक्षिणोदग्वृत्तं गतोऽर्क: समयेन येन । तत्राऽर्कमध्याह्ननरं च विद्वन् ज्ञात्वाक्षभागान् प्रवदापमं च ॥ प्रहस्य मध्यमां क्रान्ति स्फुटांश्च विषुवांशकान् । विज्ञाय प्रस्फुटां क्रान्ति शरं च वद सत्वरम् ॥ ८. ९. बिम्बीयायनवलनं मध्यां क्रान्ति खगस्य चावेक्ष्य | स्पष्टामपविषुवांशान् विशिखं च वदाशु गोलज्ञ || १०. मध्यां क्रान्ति च शरं ज्ञात्वा यः प्रस्फुटापमं वेत्ति । स्पष्टांश्च विषुवभागांस्तं मन्ये गोलविद्वर्यम् || ११ स्फुटास्फुटापमक्रमाववेक्ष्य यः शरांशकान् | स्फुटांश्च वैषुवांशकान् वदेत् स गोलविद्वरः ॥ १२. खेटबिम्बवलनं किलायनं प्रस्फुटांश्च विषुवाख्यभागकान् । वीक्ष्य शीघ्रमपमो स्फुटास्फुटौ मार्गणं च वद मित्र सत्त्वरम् ॥ १३. खेटस्य बाणं विषुवाख्यभागांश्चावेक्ष्य यः शीघ्रमवैति भागान् । स्फुटास्फुटक्क्रान्तिभवान् स नूनं वैज्ञानिकः स्याद्गणिते सगोले ॥ १४. स्फुटविषुवांशान् स्पष्टां क्रान्ति विज्ञाय मध्यमक्रान्तिम् । शरमपि वदति य एष प्राज्ञो गणितज्ञगणनीयः ॥ १५. खेटस्यायनवलनं बिम्बोत्थं मागणं च विज्ञाय । गाणितिकवयं शीघ्रं स्फुटविषुवांशान् समाचक्ष्व || १६. खेटस्य स्फुटमपमं ज्ञात्वा बिम्बोत्थमायनं वलनम् । यो वेत्ति मध्यमापममिषं च विज्ञेय एष गोलज्ञः ॥ १७. विद्वन् खगस्फुटक्रान्ति शरं विज्ञाय वेत्सि चेत् । अपमं मध्यमं तर्हि मन्ये गणितवित्तमम् ॥ १८. यत्राद्रिनेत्रप्रमिताः पलांशास्तत्र द्ययाते नखनाडिकाभिः । तुल्ये नृभादयसम्मुखी स्याद्यदा तदाकपममाशु विद्धि || सि० – ६६