पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२० सिद्धान्तशिरोमणी गोलाध्याये ऊर्ध्वस्थस्य गृहादिभिर्व्यवहितस्याप्यग्र मात्रं सखे वंशस्य प्रगुणस्य यस्य सुसमे देशे समालोक्यते । अत्रैव त्वमवस्थितो यदि वदस्यस्यान्तरं चोच्छ्रयं मन्ये यन्त्रविदां वरिष्ठपदवीं यातोऽसि धीयन्त्रवित् ।। ५१ । दूरस्थस्य न दूरगस्य यदि वादृष्टस्य दृष्टस्य वा वंशस्य प्रतिबिम्बितस्य सलिले दृष्ट्वाग्र मात्र सखे । अव त्वमवस्थितो यदि वदस्यस्यान्तरं चोच्छ्रयं त्वां सर्वज्ञमतीन्द्रियज्ञमनुजव्याजेन मन्ये भुवि ।। ५२ । पदं यदाद्यात्परवर्गयुक्ताद्गोलक्रमात् तत् परयुक्तहोनम् । अक्षज्यका स्यादथ सौम्यगोले सूत्रद्युजीवाभिहतियंदाल्पा || शङ्कोस्त्रिभज्यागुणितात् तदाद्यहीनात् स्वनिघ्नात् परतः पदं यत् । तेनोनयुक्तः परसंज्ञक: म्याद्विधाक्षजीवा सुधियैवमृह्यम् || बापूदेवोक्तः प्रश्नः - एकस्य स्फुटवैषुवांशकमिति: शून्यं द्वितीयस्य च स्पष्टापक्रमसंमितिः खमिति यावेकाशतुल्येषुको । खेटौ तद्विवरं भवृत्तगतमालोक्येषुमानं तयोः शीघ्रं मे गणक प्रचक्ष्व यदि ते गोलेऽस्त्यलं नंपुणम् ॥ अस्य भङ्गः - द्विगुणपरम क्रान्त्यंशानां ज्ययाषितयाहृतस्त्रिभवनगुणो यो या खेटान्तरोत्क्रमशिञ्जिनी | त्रिभगुणहृता चैतत् कृत्योवियोगपदेन हृद्ग्रहविवरजा ज्या स्याद्बाणज्यका च ततः शरः ॥ अथ वा- अक्षिक्षुण्णपरापमस्य हि गुणोऽन्यः स्यात् स खेटान्तर- व्यस्तज्या गुणितो हृतस्त्रिभ गुणेनाप्तस्य खण्डाद्धनुः । यत् स्यात् तद्रहिताअनन्दलवतो मौर्व्या द्विनिघ्न्या हृतोऽ न्यः खेटान्तरजीवया विगुणितो वेषज्यकातः शरः ॥ प्रश्न: ---- नक्षत्राणां त्रयाणां स्याद्येषां स्पष्टोऽपमः समः । एकदिनक: किलेतेषामन्तरं च द्वयोद्वयोः || बृहदवृत्तगतं वीक्ष्य यो वदेत् तं स्फुटापमम् । स गोले गणितेऽत्यन्तं प्रवीणः स्यादसंशयम् ॥ अस्य भङ्ग- मजातान्यन्तराणि स्युस्त्रीणि यानि ततः पृथक् । दलानि यानि तज्जीवास्त्र्यत्रबाहून प्रकल्पयेत् ॥ तत्त्र्यस्रबाहुघातार्थात् त्र्यत्रक्षेत्रफलेन यत् । अवाप्तं स्याद् द्यूजीवा स्यादपमावगमस्ततः ॥