पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रश्नाध्यायः ५१७ वा० वा० - प्रश्नान्तरमाह - अक्षाभां तरणि दिशो युगगतमिति । अत्र यन्त्र- वेधविधिना ध्रुवोन्नतिरक्षांशाः । तुर्यादियन्त्रेण मध्याह्न रखेर्नतांशा वेध्यास्ते अक्षांश: संस्कृताः क्रान्त्यंशाः भवन्ति । क्रान्तिज्यातो विलोमविधिना दोर्ज्या वेद्या तस्या धनुरंशा वर्षप्रथमचरणेऽर्को भवति । द्वितीये भार्द्धाच्च्युतस्तृतीये सभार्द्धश्चतुर्थे भगणोत्पतितोऽर्को भवति । वर्ष- चरणज्ञानं सूर्याक्रान्तनक्षत्रादिति स्पष्टम् । दिग्ज्ञानं ध्रुवात् । एवं प्रत्यहं मध्याह्ने स्पष्टसूर्यज्ञानम् । अद्यतनस्वस्त नस्पष्टयोरन्तरे स्पष्टागतिः । एवं वर्षपर्यन्तं स्पष्टगतयो विलोक्या: । यस्मिन् दिने गतेरत्यन्ताल्पत्वं तद्दिने यावान् स्पष्टसूर्यस्तावदुच्चम् | परमा- धिकपरमाल्पगत्योर्योगाद्धं मध्यमा गतिः । स्पष्टसूर्याद्विलोमविधिना प्रत्यहं मध्यमसूर्यो एकमुद्वृत्तशङ्क तथा वाग्रकाखण्डमाद्य तयोस्तधृति साधयेत् । तद्धृतिज्ञोऽवगत्योन्नतं साधयेत् क्रान्तिजीवामथैवं मुहुः स्तः स्फुटे ॥ मूलं च तद्धृतिदलं परिकल्प्य विद्वानग्राग्रखण्डसमवृत्तनरोर्ध्वखण्डे । ज्ञात्वैकशोऽपम इतोऽथ तमुन्नतं च विज्ञाय तद्धृतिरिदं च मुहुः स्फुटौ तौ । समुन्नतलवज्यकाहतचरांशकोटिज्यकां विभज्य चरजीवयोन्नतजकोटिमौर्व्याप्तयोः । यदन्तरमिहामुना त्रिभगुणाद्धृताद्यत् पदं दिवाकरहतं भवेदिह पलप्रभेष्टे पुरे ॥ यदि सूत्रं चरज्यायाः स्थाने तत्साधितान्तरात् । त्रिभज्याविहृतान्मूलं रविघ्नं स्यात् पलप्रभा || बापूदेवोक्तः प्रश्नः-- यस्तीक्ष्ण रश्मेनंत कालमानं दिशं च संवीक्ष्य पलांशदर्शी | क्रान्ति विजानाति स एव गोलज्ञानाभिमानोन्नतमस्तकोऽस्ति || अस्य भङ्गः- दो: कोटिजीवे नतकालजाते दिग्ज्याक्षजीवानिहते क्रमेण । दिगंशकोटिज्यकया त्रिमौर्व्या विभाजिते चाद्यपराह्वये स्तः || योगो वियोगश्च तयोदिगंशोत्तरानुदक्त्वेऽथ नतं यदि स्यात् । पञ्चेन्दुनाड्यभ्यधिकं तदातो व्यस्तं च तस्माद्रविभिविनिघ्नात् || लम्बज्ययाप्तं पलभां प्रकल्प्य साध्याक्षजीवापमशिञ्जिनी सा । योगे तथाद्याच्च परस्य शुद्धौ दिगंशदिक्केतरथान्यदिक्का || श्रीम० देवसतोयं महादेवभट्टोक्तो भङ्ग:- दिग्भागकोटिगुणलम्बलवोत्क्रमज्याहत्या हतो नतगुणस्त्रिगुणस्य कृत्या | भक्तोऽथ दिग्लवनतासुलवान्तरज्या लब्ध्योवियोगयुतितस्तु परः क्रमेण ॥ न्यूनाधिकत्ववशतोऽत्र दिगंशकानां चाप परस्य रहितं नवतेयास्य | दिग्भाग कोटिगुण लम्बगुणाहतेयं लब्धं द्युमोयुंदगतस्त्वपमः प्रसिध्द्येत् || सौम्या न दिग्लवकला यदि तन्नतासुयोगज्यकाप्तरहितान्य इतोऽल्पकं चेत् । दिग्भागकोटिगुणतो नतजीवयासमक्षज्यकाघ्नमपमोऽनुदगन्यथोदक् ||