पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१८ सिद्धान्तशिरोमणौ गोलाध्याये ज्ञेयः । ततो 'राश्यादेविकला' इत्यनेन विकलाशेषादहर्गणज्ञानम् | अहर्गणाद्वार- ज्ञानम् । अहर्गणाद्विलोमविधिना कल्पगतज्ञानम् । एवं गोलादियन्त्रेण स्पष्टचन्द्रज्ञानम् । स्पष्टसूर्यचन्द्रयोर्मासतिथिनक्षत्रयोग - करणज्ञानम् एवं भगणभोगपर्यन्तं स्पष्टचन्द्रवेधेन मन्दोच्चज्ञानं मन्दोच्चगतिज्ञानं च । रात्रौ दृष्टचन्द्रछायातश्चन्द्रदिनगतं भूपृष्ठस्थ क्षितिजादूर्ध्वं भवति । यस्मिन् काले चन्द्रच्छायालक्षिता तस्मिन्नेव काले स्पष्टचन्द्रो ज्ञातव्यः । । अस्माच्चन्द्रादायनदृक्कर्मंदानेनोदयलग्नं साध्यम् । उदयलग्नेष्टलग्नयोरन्तरं घटयाद्याद्यं भूगर्भस्थ क्षितिजादूर्ध्वं भवति । यद्यनेन दिनगतान्तरेण भूव्यासार्द्ध- योजनानि तदा षष्टिघटीभिः किमिति स्पष्टकक्षा भवति । परमाधिकपरमाल्पकक्षयो- योगार्द्ध मध्यमा कक्षा कल्प्या | एवं सर्वे ग्रहाः स्पष्टास्तत्कक्षाश्च ज्ञातव्याः । तन्मध्यगतयोऽपि। एवं सर्वेषां शरा: वेद्या: । दक्षिणशराभावे यो ग्रहः स भगणशुद्धः पात इति कालान्तरेण पातज्ञानं सर्वेषां परमशरज्ञानं च । भौमादीनां कल्पगतान्मध्यगत्या मध्यमग्रहज्ञानम् | यन्त्रेण भौमादीनां स्पष्टज्ञानम् । मध्यमस्पष्टयोरन्तरं फलसंस्कारस्तत्पृथक्करणम् । भौमादेः स्पष्टकक्षा प्रत्यहं ज्ञेयाः । स्पष्टकक्षायाः व्यासार्द्धं स्पष्टयोजनकर्ण: । यदि मध्यमयो- जनकर्णेन त्रिज्यातुल्यो लिप्ताकर्णस्तदा स्पष्टयोजनकर्णेन किमिति चलकर्णो भवति । यतश्चलकर्णो हि ग्रहकक्षाया व्यासार्द्धमित्याचार्यमते स्पष्टम् । एवं प्रत्यहं चलकर्णेषु ज्ञातेषु परमाधिकचलकर्णंत्रिज्ययोरन्तरं शीघ्रान्त्य- फलज्या तस्या धनुः शीघ्रफलांशाः । एवं प्रत्यहं शीघ्रफलज्ञानेन तच्छीघ्रोच्चज्ञानं शीघ्रोच्चगतिज्ञानं च । ततो विलोमशीघ्रफलसंस्कारेण स्पष्टान्मन्दस्पष्टज्ञानम् । ततः प्राग्वन्मन्दोच्चज्ञानम् | अहर्गणाद् भाज्याद् कुट्टकेन मन्दोच्चपातभगणज्ञानम् । एवमादिपठितसिद्धा- न्तेन युक्त्या सर्वं ज्ञातुं शक्यत इत्यस्योत्तरम् ॥ ४९ । बापूदेवोक्तः प्रश्नः -- उन्नतं समयमक्षमां तथा तीक्ष्णगोदिशमवेक्ष्य योऽपमम् । द्राब्रवीति स हि गोलविद्वरो दुष्टगाणितिकगवनाशन: || अस्य भङ्गः-- पलकर्णदिगंश कोटिजीवोन्नतकालासुगुणाहतियुंतोना । यमसोमजदिग्ज्ययोन्नतासूत्क्रमजीवा क्षमयोर्वधेन निघ्न्या || विहिता हरसंज्ञिका किल स्यात् त्रिभजोवागुणितोऽक्षकर्णवर्गः । रहितो नयनेन्दुवर्गंनिघ्न्योन्नतकालोत्क्रमजीवया च भाज्यः ॥ त्रिभमौविकया हतो हि भाज्यो हरभक्तो भवति प्रभा नरोऽतः । अपमावगमस्तत: सुबोध: सुधियो गाणितिकस्य गोलवेत्तुः ॥